उपाधिखण्डनम् /72
This page has not been fully proofread.
भेदव्यावहारिकत्वस्य दुर्निरूपत्वसमर्थनम्
३७९
(मं. टि.) किं चेदं व्यावहारिकत्वं नाम ? किं बाध्यत्वं किंवा प्रातिभासिकान्यत्वे सति बाध्यत्वं ? यद्वा
पारमार्थिकान्यत्वे सति प्रातिभासिकान्यत्वं ? अथ वा ब्रह्मापरोक्षज्ञानातिरिक्तज्ञानाबाध्यत्वं ? आहोस्वित् ब्रह्मापरोक्ष-
ज्ञानातिरिक्तज्ञानाबाध्यत्वे सति बाध्यत्वं ? उत व्यवहारनिर्वाहकत्वं ? नाद्यः प्रातिभासिकेऽतिव्याप्ते अत एव
न द्वितीयः प्रातिभासिकस्यापि यत्किञ्चित्प्रातिभासिकान्यत्वेनातिव्याप्तेः । अत एव न तृतीयः प्रातिभासिकस्य
पारमार्थिकान्यस्य यत्किञ्चित्प्रातिभासिकान्यत्वात् । प्रातिभासिकत्वस्यापि व्यावहारिकज्ञानाधीनत्वेन अन्योन्या-
श्रयत् । अत्यन्तं विमर्श व्यावहारिकत्वमनिरूप्य प्रातिभासिकत्वस्य निरूपयितुमशक्यत्वात् । न चतुर्थः ब्रह्मण्यति-
व्याप्तेः । तस्यापि ब्रह्मापरोक्षज्ञानातिरिक्तज्ञानाबाध्यत्वात् । न पञ्चमः प्रारब्धकर्मण्यव्याप्तेः । तस्य ब्रह्मापरोक्षज्ञा-
नानन्तरमप्यनुवर्तमानस्य ब्रह्मा परोक्षज्ञानबाध्यत्वायोगात् । किञ्च अस्मिन्नेव लक्षणेऽव्याप्तिः । स्वस्य स्खस्मिन्नवृत्तेः ।
न हि त्वया अस्माभिरिव लक्षणे लक्षणमङ्गीकृतं । येन सत्यत्वादिलक्षणेष्विव विवक्षितव्यक्तिविशेषे पर्यवसानेन
आत्माश्रयः परियेत । षष्ठस्तु अस्माभिः प्रार्थनीय एवेति व्यावहारिकत्वं दुर्निरूपमिति ।
॥ स्वरूपसङ्कीर्तनमिति ॥ स्वप्रयोजन शरीरानन्तर्भावादिति भावः । ननु 'यदेति श्रुतौ परमं साम्यमुपैतीति
साम्यमेवोच्यते न भेदः' इत्यत आह ॥ सादृश्येति ॥ सदेति सादृश्य विशेषणमिति ॥ अभिव्यक्तानन्दत्वा.
दिना सादृश्यस्य सदातनत्वं प्रध्वंसाप्रतियोगित्वं । न तु त्रिकालवृत्तित्वं । तथात्वे तस्य कृतिसाध्यत्वायोगात्
॥ अधिकारिविषययोः सम्बन्धो दर्शित इति ॥ ज्ञातृज्ञेयभावः सम्बन्धः ॥ तेनेति ॥ शस्त्रस्याधिकारिण। ज्ञातू-
ज्ञापकभावः सम्बन्धः, विषयेण ज्ञाप्यज्ञापकभावः सम्बधो दर्शित इत्यर्थः ॥ सादृश्यद इति । विषयप्रयोजनयोः
दातृदेयभावः सन्बन्धो दर्शित इत्यर्थः ॥ तेनाधिकारीति ॥ भोक्तृभोज्यभावलक्षण सम्बन्धो दर्शित इत्यर्थः ॥
तेनात इति ॥ तेन अध्याहृतेन विषयाद्युपपन्नमित्यनेनेत्यर्थः ।
नारायणागण्यगुणवत्त्वादिनिबन्धनस्य प्रयोजनम्
(टी.) . किमस्य प्रयोजनम् ? इत्यत आह
मायावादतमोव्याप्तमिति तत्वदृशा जगत् ।
भातं सर्वज्ञसूर्येण प्रीतये श्रीपतेस्सदा ॥ १९ ॥
(मं. टि.) ॥ किमस्येति ॥ नारायणस्यागण्यगुणानुसन्धानमात्रेण नारायणप्रीतेः स्वप्रयोजनस्य सिद्धत्वा-
निबन्धनकरणं निष्प्रयोजनमित्य क्षेपार्थः किंशब्द: । निबन्धनकरणेन साधूनां दुर्वाधहित दुर्युक्ति निबन्धनाज्ञानस्य
निराकरणं स्यात् । तेन चात्यन्तं श्रीपतिः प्रीणातीति परिहारार्थः ।
ग्रन्थसमाप्तौ मङ्गलाचरणम्
(टी.) एवं समापितत्रकरणोपि भगवानाचार्योऽन्तेऽपि परमेश्वरप्रणामस्तवने विधत्ते