उपाधिखण्डनम् /71
This page has not been fully proofread.
उपाधिखण्डने
भेदप्रत्यक्षस्य व्यावहारिक भेदपरत्वे किं प्रमाणमिति प्रश्नायोग इति खण्डनोक्ताक्षेपः
(म. टि. ) II इदं श्रुत्युदाहरण मिति ॥ नन्वत्र भेदपतिपादिका श्रुतिः व्यावहारिक भेदपरेति चेत् किमत्र
प्रमाणं ? ननुभे दश्रुतेव्यवहारिक भेदपरत्वे खलु प्रमाणं पृच्छयते । तथा च यत्र प्रमाणं पृच्छयते सोऽर्थः प्रती-
यते ? न बा ? न चेत् कथं प्रमाणप्रश्नस्यावसरः ? अप्रतीताथ प्रमाणप्रश्नायोगात् । प्रतीयते चेत् सा किं भ्रान्तिः? किं
वा प्रमा ? नद्यः । भ्रान्तिसिद्धे प्रमाणं पृच्छतः तवैव भ्रान्तत्वप्रसङ्गात् । न हि भान्तिसिद्धेऽर्थे प्रमाणं कश्चिदनु-
मत्तः पृच्छति । द्वितीये न नितरां प्रमाणप्रश्नः । त्वयैव प्रमितत्वाङ्गीकारात् । प्रमाया: प्रमितत्वेऽपि प्रमाकरणं
पृच्छयत इति चेन्न । करणं विना प्रमानुदयेन प्रमाबलादेव तत्करणस्याप्यनुमानात् । प्रमाकरणसामान्यस्य सिद्ध-
त्वेऽपि विशेषज्ञानार्थं प्रश्न इति चेन्न । ' निर्विशेषं न सामान्यं ' इति न्यायेन विशेषस्यापि सामान्यबलादेव कल्प-
नात् । तावतैवार्थसत्वसिद्धौ विशेष जिज्ञासाया निष्फलत्वाच्चेति कश्चित् स्वव्याघातमध्यजानानः खण्डनवादी
मन्यते ।
खण्डनोक्ताक्षेपस्य स्वव्याहत्या निरास:
तं प्रति ब्रमः ।
सा प्रमाप्रमयोरन्या या मतिस्तव वाक्यतः ।
निश्चेष्यते तद्विशेष: कथोत्तरमिति स्थितिः ॥
३७८
ty
।
भेदश्रुतिर्व्यावहारिक भेदपरा ' इति तव वाक्यात्काचित्प्रतीतिरस्माकमपि जायत एव । तत्र यदुक्तं, सा
किं प्रमा ? अप्रमा वा ? इति । तत्र प्रश्न एव नोपपद्यते । इदानीमपि तद्विशेषस्यास्माभिरनिश्चयात् । कथायां हि
प्रवृत्तायां यदि त्वया भेदश्रुतीनां व्यावहारिक भेद परत्वे प्रमाणमभिधीयेत तदा मूलप्रमाणसत्वात् त्वद्वाक्यं प्रमाण-
मिति निश्चित्य करणदोषाभावात् त्वद्वाक्यादस्माक यज्ज्ञानमुत्पन्नं तत्प्रमाणमिति निश्चीयेत । यदि तु त्वया प्रमाणं
नाभिधीयते परं त्वस्माभिरेव अव्यावहारिकपरत्वे प्रमाणमभिधीयेत तदा 'मेदश्रुतिर्व्यावहारिकभेदपरा' इति त्वद्वा-
क्यं मूलप्रमाणाभावात् अस्मदुक्तप्रमाणविरोधाच्चाप्रमाणमिति निश्चीयेत । करणदोषसद्भावात् त्वद्राक्यजा प्रतीतिर
प्रमेति निश्चीयेत । यदि च प्रागेवान्यतरनिश्चयः स्यात्तदा तवापि कथायां प्रवृत्तिर्न स्यात् । कथाफलस्य अन्यत-
रनिश्चयस्य प्रागेव सिद्धत्वात् । ननूत्पन्नं ज्ञानं प्रमात्वेनाप्रमात्वेन वा सिद्धयेत् । उभयौदासीन्यं तु कथं ? इति
चेत् सिद्धयेदिति कोऽर्थः? किमुत्पद्यत इति ? किं वा ज्ञायत ? इति । आद्ये इष्टापत्तिः । वस्तुगत्या तस्य प्रमात्वा
प्रमात्वयोरन्यतरापन्नत्वात् । न द्वितीयः संशयकारणसद्भावे अन्यतरको टेर्निश्चे तुमशक्यत्वात् । न च संशयकार-
णमेव नास्तीति युक्तं । वादिविप्रतिपत्तिरूपकारण सद्भावात् । वयं हि त्वद्वाक्यं मूलप्रमाणरहितमिति मन्यामहे ।
भवांस्तु मूलप्रमाण सहितमिति मन्यते । ततः कथं विप्रतिपत्त्यभावः ? विप्रतिपत्त्यभावे च कथारम्भ एव न स्या
दिति यत्किञ्चिदेतत् । स्वव्याघातस्तु स्पष्ट एव । तस्माद्युक्तः प्रमाणप्रश्नः ।
अथ प्रमाणप्रश्नमङ्गीकृत्य प्रमाणं ब्रूषे अद्वैतवाक्यविरोधादिकं तत्रोत्तरमन्यत्रोक्तमिति ।
1 अत्र प्रमाया इत्यधिकमिति भाति.