This page has not been fully proofread.

मन्दारमअर्यां अत्यन्ताभावस्य सत्प्रतियोगिक्त्वनिरास:
 
३७७
 
(मं. टि.) कालान्तरभावि बाघकज्ञान बाध्यज्ञानविषयाभाव गृह्णाति ? न वा ? न चेत् कथं बाधकं स्यात् ?
गृह्णाति चेत् बाध्यज्ञानेन यस्मिन् काले स्वविषयोऽस्तीति गृहीतस्तस्मिन्नेव काले तद्विषयं नास्तीति गृहीयात् ? किंवा
कालान्तरे नास्तीति ? द्वितीये तत् बाधकमेव न स्यात् । कालभेदेन तयोर्विरोधपरिहारात् । न हि घटकाले
तस्यास्तित्वज्ञानं तदभावकाले तन्नास्तिताग्राह केण बाध्यते । नाद्यः अनेन ज्ञानेन एतत्काले स्वविषयस्य प्रमितत्वेन
कालान्तरभाविनापि एतत्काले एतद्विषयाभावस्य गृहीतुमशक्यत्वात् । कालान्तरभाविना एतद्विषयामावग्रहणे च
एतद्विरोधेन तस्यैवाप्रामाण्यनिश्चयात् ।
 
भेदप्रत्यक्षे शुक्तिरजतप्रत्यक्षात् वैलक्षण्योपपादनम्
 
नन्वेवं तर्हि शुक्तिरजतादिज्ञानेनापि स्वविषयस्य त्रैकालिकबाधाभावो गृह्येतेति चेन्न तस्याप्रमाणत्वात् ।
अस्य तु प्रमाणत्वात् । प्रपञ्चग्राहि प्रत्यक्षस्य प्रामाण्यमेव कुतः ? इति चेत् किं कुत उत्पद्यते ? इति प्रश्नार्थः । किं
वा कुतो ज्ञायते ? इति । उभयत्रापि स्वत एवेति परिहारः । प्रामाण्यस्वतस्त्वस्यान्यत्र निर्णीतत्वात् । नन्वयं
परिहारः शुक्तिरजतज्ञानेऽपि समान इति चेन्न । संवादभावाभावाभ्यां विशेषात् ।
 
संवादस्य अप्रामाण्यशङ्कानिरासकत्वे अनवस्थादोषाशङ्का तत्परिहारच
 
ननु संवादेऽपि कथं विश्वास : ? इति चेत् संवादान्तरादित्यवेहि । ननु तर्ह्यनवस्था स्यात् । न स्यात् । न
हि सर्वत्र संवादापेक्षा येनानवस्था । किं तु ? यत्र मनोवृत्तिज्ञानेषु विषयव्यभिचारः तत्रामाश्वासकारणसद्भावात्
संवादापेक्षा । साक्षिज्ञाने तु न संवादापेक्षा । साक्षिणः कदापि विषयव्यभिचाराभावात् । एवं च साक्षिविषयेषु
सुखादिषु यावत्पर्यवसानं तावदेव संवादापेक्षेति नानवस्था । प्रपञ्चंत चैतत् तत्र तत्र टीकाकारैरिति ।
 
भेदप्रत्यक्षे भाविबाधकनिश्चायकप्रमाणाभावः
 
अपि च कालान्तरे बाधकं भविष्यतीति किं निश्चीयते ? किं वा संभाव्यते ? नाद्यः निश्चायकप्रमाणाभा-
वात् । अद्वैतश्रुतीनां च अन्यत्र अन्यथा व्याख्यातत्वात् ।
 
भेदप्रत्यक्षे भाविबाधकसभ्भावनानिरासः
 
न द्वितीय: सम्भावनाबीजाभावात् । ज्ञानत्वमेव सम्भावनाबीजमिति चेत् तर्हि यत् बाघकज्ञानं सम्भा
व्यते तस्यापि बाधकं ज्ञानत्वात् सम्भाव्यतां । किं चैतादृशश्रद्धाजाड्यवता कालान्तरं भविष्यतीति कथं निरणायि ?
येन तत्र बाधकं सम्भाव्येत ।
 
भेदप्रत्यक्षप्रामाण्यनिरासार्थमुक्तानां दोषाणां तद्बाधकतयोक्तवचनेष्वतिदेशः
 
किं च त्वदुक्तबाधकवचनानि प्रमाणानि ? न वा ? द्वितीये फलितमस्मन्मनोरथद्रुमेण । आद्ये कथं प्रामा
ण्यं निरणायि ? अबाधादिति चेत् त्वदुक्तानि बाघकानि त्वमेवानुसन्धत्स्वेत्यलं दुर्बलहिंसया । तस्मात् प्रत्यक्षा-
टिमिटो मेटः इति साधक्तं ।