This page has not been fully proofread.

३१४
 
उपाधिखण्डने
 
(मं. टि.) द्वितीयेऽपि किं प्रवाहिणां प्रत्येकं ज्ञापकत्वं ? किं वा मिलितानां ? नाद्यः । एकैकप्रवाहिदर्शनेऽपि प्रवाह-
बुद्धिप्रसङ्गात् । न द्वितीयः । तेषां क्रमभाविनां मेलनस्यैवासम्भवात् । नाऽपि द्वितीयः । सादिप्रवाह्यभिन्नस्य
प्रवाहस्यानादित्वायोगात् । तस्मात्कर्मादीनां प्रवाहतोऽनादित्वमिति व्याख्यानमयुक्त मिति । अत्रोच्यते
 
1
 
प्रवाह इति गीयन्ते सजातीया: प्रवाहिण: ।
कालेनोपाधिना ग्रस्ता नानावृक्षा वनं यथा ॥
 
न प्रवाहिभ्योऽतिरिक्त प्रवाहोऽस्ति । सजातीयानां प्रवाहिणामेव पूर्वापरकालवृत्ति वेनोपाधिना प्रवाह
शब्दार्थत्वात् । 'दृष्टं चैतत् । एकदेशस्थत्वेनोपाधिना अनेकवृक्षाणामेव 'वनशब्दार्थत्वात् । तेषामना दिव
च एकप्रवाहमध्यपतितानेकप्रवाहि प्रतियोगिक प्रागभावावच्छिन्नकालावृत्तित्वानधिकरणध्वंसप्रतियोगिप्रवाहित्वमिति
न कश्चिद्दोषः ।
 
प्रकरणस्य प्रयोजनादिसमर्थनम्
 
ननु जीवस्वरूपानन्दस्य स्वतः सिद्धत्वात् तद्विरुद्धदुःखस्य तत्रानवकाशान्नेश्वरप्रसादेन सम्पाद्यमस्तीत्यत
आह ॥ स्वतश्चिदिति ॥ चिदानन्दाद्यात्मकस्यापि नापगच्छतीति विधेयविशेषणमेतत् । स्वरूपानन्दादिना
बाह्यदुःखादे विरोधाभावात् दुःखादिनिवृत्तेरीश्वरप्रसादसाध्यत्वमस्तीत्यर्थः । उपलक्षणमेतत् । स्वरूपानन्दस्य
नित्यत्वेऽपि आविर्भूतानन्दस्य प्रयोजनत्वात् आविर्भावस्येश्वरप्रसादसाध्यत्वादित्यपि द्रष्टव्यम् । परमात्माभिन्नस्य
 
4.
 
जीवस्य कुतोऽनर्थप्राप्तिः? इत्यन आह ॥ परमात्मनो भिन्नस्येति ॥ व्यावहारिक भेदसद्भावेऽपि न पारमार्थि
कानर्थो जीवस्य सम्भवतीत्यत आह ॥ अत्यन्तेति ॥ परमार्थत इत्यर्थः । यद्वा भास्करमतनिरासेन अभेदा-
सहिष्णुभेदप्रतिपादनाय अत्यन्तमित्युक्तम् । मोक्षस्येश्वरप्रसाद साध्यत्वेऽपि तत्साक्षात्कारं विना तत्प्रसादा-
भावात् अपरोक्षज्ञानजनकानां वेदान्तानां सप्रयोजनत्वात् तद्विषयक प्रवृत्तिहेतुभूत विषयादिनिर्णायकस्यास्य प्रकरण -
स्यापि सप्रयोजनत्वमित्यभिप्रायः ।
 

 
नन्वेवमप्यपरोक्षज्ञानमेव 'मोक्षपर्यवसायि । वेदान्तैश्च परोक्षज्ञानमेव क्रियत इत्यत आह ॥ न चेति ॥
अविदितेति ॥ परोक्षज्ञ /नेना विदितेत्यर्थः । घटाद्यपरोक्षज्ञानस्य परोक्षज्ञानपूर्वकत्व नियमाभावेऽपि ईश्वरापरो..
क्षज्ञानस्योपासनासाध्यत्वात् उपासनायाश्च परोक्षज्ञानपूर्वक त्वनियमादिति भावः । नन्वीश्वरपरोक्षज्ञानं लोकत
एव प्राप्तमिति किं वेदान्तैः ? इत्याशङ्कयाह ॥ सकलेति ॥ यद्यपि कार्यत्वाद्यनुमानेनेश्वरस्वरूपमात्रमवगतम् ।
तथापि तन्नोपासनाङ्गम् । 'श्रुत्यायुक्त गुणविशिष्टस्यैवोपास्यत्वादिति भावः । कर्मकाण्डस्यापीश्वरज्ञान हेतुकर्म-
प्रवाहतोऽनादित्वव्याख्यानमयुक्त मिति.
 
4 भास्करमतनिरासाय. 3 प्रयोजनपर्यवसायि.
 
"
 
.
 
2 दृष्टपूर्व चैतत् । एकदेशावस्थानोपात्रिना. 3 वनशब्दार्थत्वदर्शनात्,
6 परोक्षज्ञानपूर्वकत्वादिति भावः
 
श्रुत्युक्त.
 
7