This page has not been fully proofread.

उपाधिखण्डने
 
अत्यन्ताभावस्य निष्प्रतियोगिकत्ववादिनामाशयनिरूपणम्
 
(मं. टि.) ननु कथमभावो निष्प्रतियोगिकः स्यात् ? इति चेन्न । किमिदं निष्प्रतियोगिकत्वं ? प्रतियोगि
प्रतीतिनिरपेक्षत्वं वा ? प्रामाणिकप्रतियोगिहीनत्वं वा ? नाद्य: अनुक्तोपालम्भात् । न ह्यस्माभिरत्यन्ताभावस्य प्रतीतिः
प्रतियोगिप्रतीतिनिरपेक्षेत्युक्तं । किं तहिँ ? 'प्रसक्तप्रतिषेधः' इत्युक्तं ।
 
अत्यन्ताभावस्य प्रतियोगिसत्वानपेक्षत्वे अनुमानप्रमाणोदाहरणम्
 
३७६
 
न द्वितीय: ' अभावत्वं निष्प्रतियोगिकनिष्ठं सत्तासाक्षाद्वयाप्यधर्मत्वात् भावत्ववत्' इत्यनुमानेन निष्प्र-
नियोगिकत्वसाधनात् ।
 
अत्यन्ताभावस्य सत्प्रतियोगिकत्वानङ्गीकारे अनुपपत्तिशङ्का
 
अथ भुतलान्तरे घटे विद्यमान एव 'एतद्भुतले घटो नास्ति' इति घटाभावोऽनुभूयते । न चायं प्राग-
भावाभावयोरन्यतरः । प्रतियोग्यसमानकालीनत्वात् तयोः । नाप्यन्योन्याभावः । 'भूतलं घटो न भवति '
इति प्रतीतिप्रसङ्गात् । ततः परिशेषात् अस्यन्ताभाव इति गम्यते । ततश्च अत्यन्ताभावः कथं निष्प्रतियोगिकः
स्यात् ? इति चेन्न ।
 
अत्यन्ताभावस्य सत्प्रतियोगिकत्वनिरासः
 

 
इह भूतले घटो नास्ति' इत्यादौ भूतलघटसंसर्गस्यैव निषिद्धयमानत्वात् । अवश्यं चैतत् त्वयाप्यङ्गी-
करणीयम् । घटस्य भूतलान्तरे सत्वेन स्वरूपेण निषेधासम्भवात् / संसृष्टत्वाकारेण निषिद्धयते घट इति चेत्
तहिँ प्राप्ताप्राप्तविवेकेन संसर्ग एव निषिद्धयत इत्यायातं । 'सविशेषणे विधिनिषेधौ सति विशेष्ये बाघे विशेषण-
मुपसङ्कामते' इति न्यायात् । कथं तर्हि घटशब्दोपादानं ? इति चेन्न । ' भूतले ' इत्यधिकरणसप्तम्या भूतल-
स्याश्रयत्वेऽभिहिते आश्रयत्वप्रति सम्बन्धिनि आधेयत्वे च अर्थादुक्ते 'किंनिष्ठा आधेयता ?' इत्याकाङ्क्षायां 'घट-
निष्ठा' इति ज्ञापयितुं घटशब्दोपादानात् । एवं च 'इह भूतले घटो नास्ति' इत्यत्रापि भूतलघटयो राधा राधेयभावो
निषिद्धयत इति स्थितं । तत्र यदि नाम तयोराधाराधेयभावः प्रागभूत् तदा अयमनुभवस्तत्प्रध्वंस विषयकः । यदि भवि-
व्यति तदा तत्प्रागभावविषयकः । यदि न जातः नास्ति न भविष्यति तदा अत्यन्ताभावविषयकः । एवं च 'शश-
विषाणं नास्ति' इत्यादे: 'शशे विषाणं नास्ति' इत्याद्यर्थोऽपि न कल्पनीयः । तत्राप्यप्रामाणिकस्य शशवि-
षाणस्यैव प्रतियोगित्वोपपत्तेः । तस्मादत्यन्ताभावस्य निष्प्रतियोगिकत्वात् स्खबाघात्यन्ताभावो हेतुरिति न कश्चि-
द्दोष:
 
:।
 
भेदप्रत्यक्षे त्रैकालिकबाधाभावस्य प्रत्यक्षवेद्यत्वसमर्थनम्
 
यञ्चोक्तं 'किमेतत्कालीनबाघाभाव: ? इत्यादि ' तत्र त्रैकालिकबाघाभावो हेतुरिति वदामः । न च तद-
निश्चयः । प्रत्यक्षेणैव तन्निश्चयात् । तथा हि
 
भावि तहाघकज्ञानं बाध्यज्ञानार्थशून्यतां ।
तत्काले नैव गृह्णाति कालभेदे त्वबाधकं ॥