उपाधिखण्डनम् /68
This page has not been fully proofread.
मायावादतत्ववादयोरनारम्भणीयत्वारम्भणीयत्वयोर्विवरणम्
(टी.) भिन्नत्वेन इति स्वरूप सङ्कीर्तनं । सादृश्योक्त्या भेदस्य लब्धत्वात् । सदा इति सादृश्यविशेषणं ।
प्रयोजने विप्रतिपत्तेः ' यदा पश्यः' इति श्रुतिरुदाहृता । जीवदृशं गतः इत्यनेन अधिकारिविषययोः
सम्बन्धो दर्शितः । दृशं शास्त्रसाध्यामिति शेषः । तेन शास्त्रेण अधिकार्यादेः । सादृश्यदः इत्यनेन
विषयप्रयोजनयोः । तत्रापि जीवस्येति शेषः । तेन अधिकारियोजनयोरपीति । विषयाद्युपपन्नमिति वाक्य
शेषः । तेन अत इत्यस्य सम्बन्धः । एवमद्वैतमते शास्त्रस्यानारम्भणीयत्वप्रसङ्गानाद्वैतमतं सम्भवतीति
युक्तमेव नारायणस्यागण्यगुणवत्वमुपपादितं ।
।
४
(मं. टि.) । विषयान्तरे इत्यनेनैव स्वमते विषयादेः समर्थितत्वादुत्तरग्रन्थवैयर्थ्यमित्याशङ्कय तद्विवर-
णरूपत्वान्न वैयर्थ्यमित्याह ॥ भेदेत्यादिना ॥ अतः परो मात्रया इति मूलमन्थे पूर्वशब्द आदिपर्यायः ॥ तथाऽन-
वगमादिति ॥ लोकत इति शेषः । ननु सामान्याकारेण ज्ञातत्वादेव न विषयत्वं । विशेषाकारस्य च अत्यन्ता-
प्रसिद्धत्वादेव न विषयत्वमिति विषयोऽनुक्त एव स्यादिति चेन्न । जिज्ञासाविषयो हि द्विविधः । धर्मी प्रकार-
श्चेति । तत्र प्रकारप्रसिद्धेरहेतुत्वेऽपि धर्मिप्रसिद्धेरेव स्खजिज्ञासा हेतुत्वात् । अत्र च सकलकल्याणगुणत्वादीतां प्रका-
राणामसिद्धत्वेऽपि नारायणो धर्मी प्रसिद्ध इति जिज्ञासोचितैव । अन्यथा तवापि प्रश्नो न स्यादित्यलं ॥ सामा-
न्यत इति ॥ अगण्यगुणाश्रयत्वेनेत्यर्थः । विशेषत इति ॥ अगण्यगुणा आनन्दादय इति प्रतिपादनेनेत्यथ:
॥ द्वितीयानेति । विषय विशेषकथनेन अधिकार्यपि सूचित इत्यर्थः ॥ प्रत्यक्षादिसिद्धो भेद इति ॥ प्रत्यक्षेण
सत्यतया भेदः सिद्ध इत्यर्थः । प्रत्यक्षेण सत्यतया भेदसिद्धिश्च भेदमाहिप्रत्यक्षे बाघाभावात् ।
#
भेदप्रोहिप्रत्यक्षे बाधाभावाक्षेप
ननु किमत्र स्खबाधाभावो हेतु: ? किंवा अन्यबाधाभाव ? बाघमात्राभावो वा ? नाद्यः प्रसिद्ध्यप्रसिद्धियां
तदभावस्य दुर्ज्ञानत्वात् । न द्वितीयः रज्जुसर्पभ्रान्तिबाधरहितशुक्तिरजतज्ञाने व्यभिचारात् । न तृतीयः प्रामा-
णिकाप्रामाणिकयोः सामान्यस्याप्यसम्भवात् । किं च किमेतत्कालीयबाधाभावो हेतु:? किं वा सार्वकालिकबाधा-
भाव: ? नाद्यः तात्कालिकबाधाभावस्य शुक्तिरजतादिज्ञानेऽपि सम्भवात् । न द्वितीय: कालान्तरभाविबाधकामावस्य
वर्तमानमात्रग्राहिणा प्रत्यक्षेण निश्चेतुमशक्यत्वात् । अपि च यत्किञ्चित्पुरुषबाधाभावो भ्रमेऽपि सुलभः । सर्व-
पुरुषबाधाभावस्तु प्रकृतेऽपि दुर्ज्ञान इति ।
★
B
भेदग्राहिप्रत्यक्षे बाधाभावोपपादनम्
अत्रोच्यते, खबाधराहित्यं हेतुः । तत्र यदुक्तं ' तत्प्रसिद्धयप्रसिद्धिभ्यां तदभावस्य दुर्ज्ञानत्व दिति' तत्रो-
तरं दत्तमेव अनादित्व निर्वचनसमये, अत्यन्ताभावस्य प्रतियोगिसत्वानपेक्षत्वादिति ।