उपाधिखण्डनम् /67
This page has not been fully proofread.
उपाधिखण्डने
।
(मं. टि.) । परमार्थसतो हीति ॥ अरजते रजतत्वस्य मिथ्याभूतस्य दुर्घटस्यैव दर्शनादित्यर्थः ।
नन्वस्याः शङ्कायाः अतोऽज्ञासम्भवादेव इत्यतः प्रागेव प्रसक्तत्वात अधिकारिविषयाद्यभावप्रतिपादनानन्तरं तत्प-
रिहारोऽनवसरपराहतः । किंतु ? तत्परिहारानन्तरमेव अतोऽज्ञासम्भवादेव इत्यादिना अधिकारिविषयाद्यभावः
प्रतिपादनीय इत्यत आह ॥ सिंहावलोकनन्यायेनेति ॥ सर्वदा आवृतत्वप्रसङ्ग इति । आवरणस्य आत्मनो
नित्यत्वा दिव्यथः ॥ मोक्षे च आत्मनिवृत्तिरिति ॥ आवरणानिवृत्तौ मोक्षस्यैवासम्भवादित्यर्थः । 'अरजते रज-
तत्वं च दोषवशात् प्रतीयते' इत्यादि उपपत्तिभिरेवोपपाद्यत इति दृष्टान्तोऽप्यसङ्गत इति द्रष्टव्यं । चोदयति
॥ सत्यां प्रतीताविति ॥ किमत्राज्ञानमात्रं प्रतीयते ? किं वा सर्वज्ञस्याज्ञान ? आद्ये इष्टापत्तिः । तत्रानुपपत्त्यभाव-
श्वेत्यभिप्रेत्य द्वितीयं दूषयति ॥ न हीति ॥ नन्वथाऽपि 'अहमज्ञः' इति प्रतीयते । अहमर्थश्चास्माभिः परमात्मा
भिन्नोऽनीकियत इति कथं सर्वज्ञस्याज्ञानप्रतीत्यभावः ? इति चेत् तत्रापि किमहमर्थमात्रस्याज्ञान प्रतीयते ? किं
वा अहमर्थस्य परमात्माभेदोऽपि ? आद्योऽङ्गीक्रियत इति मत्वा द्वितीयं दूषयति ॥ नापीति ॥ ननुतर्हि अनुपप-
त्तिपरिहाराय अज्ञानपरित्यागश्चेत् अपरिच्छिन्नानन्दाद्यात्मकब्रह्मप्रतिभासाभाव: किंनिबन्धन ? इत्यत आह
॥ यथेति ॥ किञ्चेति ॥ युक्तिविरोधस्य भूषणत्वे श्रुतिविरोधस्यापि भूषणत्वप्रसङ्गादिति भावः । नन्वविद्याया-
एव दुर्घटत्वं भूषणं न निरयादेरित्यत आह ॥ निरयादेरपीति ॥ उपादानोपादेययोरभेदादिति भावः ।
॥
मायावादतत्ववादयोरनारम्भणीयत्वारम्भणीयत्वयोर्विवरणम्
(टी.) 'वेदवेदान्तयोर्जीवत्रह्मणोरेकत्वे तात्पर्य' इत्यङ्गीकारे अधिकार्याधनुपपन्या अनारम्भ-
णीयत्वं स्यात् । भेदपक्षे तु अधिकार्यादिसम्भवात् आरम्भणीयत्वोपपत्तिरिति विषयान्तरे इत्यनेनोक्तं ।
तत् विवृणोति
३७४
52
अतः परो मात्रयेतिपूर्वश्रुतिनिदर्शितः ॥ १७ ॥
अन्यमीशमितिश्रुत्या भिन्नजीवदृशं गतः ।
भिन्नत्वेनात्मसादृश्यदो यदेतिश्रुतेः सदा ॥ १८ ॥
अत इति अद्वैतपक्षे अधिकार्याधसम्भवं परामृशति । अत्र आद्यार्ध श्लोकेन परमेश्वरः शास्त्रस्य
विषयो दर्शितः । स च ईश्वरपदादेव विदित इति कथं शास्त्रस्य विषयः स्यात् ? इत्यत उक्तं परो मात्र-
येति । ईश्वरसत्तामात्रस्य कथञ्चित् अधिगतत्वेऽपि तस्य अपरिमितगुणाकरतया श्रुतिनिदर्शितस्य तथा
अनवगमात् सामान्यतो विशेषतश्च तदवगमार्थ शास्त्रमिति । द्वितीयार्धेन अधिकारी दर्शितः । स च
परमात्मात्मकश्चेत् सर्वज्ञतया नाधिकारी स्यादिति श्रुत्या भिन्नत्वेन समर्थितः । यद्यपि अद्वैतपक्षे अधि-
कार्याद्यसम्भवस्योक्तत्वात् भिन्न एवाधिकारी सिद्धः, तथापि प्राक् 'प्रत्यक्षादिसिद्धो भेदः' इत्युक्तं, तत्र
प्रत्यक्षानुमाने दर्शिते, आगमप्रदर्शनायेदं श्रुत्युदाहरणं । भिन्नत्वेन इत्यनेन प्रयोजनं दर्शितं । तत्र