This page has not been fully proofread.

अज्ञानासम्भवादेव अद्वैतवादे अधिकार्याधसम्भवः
 
(मं. टि.) ॥ किं त्विति ॥ उक्तोच्यमानेति ॥ भेदस्योपपादितत्वेन भेदमूलस्य विषयादेः उपपादितप्रायत्वात्,
इदानीं च परमतनिरासेन खमते विषया देरर्थादुक्तत्वात् अधिकार्यादेः सविस्तरं वक्ष्यमाणत्वाञ्च त्रितयशेषत्वं विषया-
न्तरे इत्यस्य वाक्यस्येत्यर्थः । तत्र विषयाभावमुपपादयति ॥ अज्ञातो हीति ॥ शास्त्रस्येति ॥ शास्त्रस्य परज्ञान-
प्रयोजनकत्वात् । परस्य चाज्ञात एव जिज्ञासा न ज्ञात इत्यर्थः । अज्ञाभावात्फलं कस्य इति वाक्यान्तरं । योगः
शशनृशृङ्गयोः इत्यस्य असङ्गतार्थत्वमाशङ्कय इवशब्दाध्याहारेण वाक्यार्थमाह ॥ एवमधिकारीति ॥
अज्ञानदौर्घटथस्य भूषणत्वशङ्का तन्निरासश्च
 
(टी.) नन्वज्ञानासम्भव एव कथं? ब्रह्मणो जीवस्य वा अज्ञानोपपत्तेः । न च तत्र दौर्घट्यमुक्त-
मज्ञानस्येति वाच्यं । यतोऽज्ञानमारोपितमेव । परमार्थसतो हि दौर्घटथं बाधकं नारोपितस्य । प्रत्युत
भूषणमेव । अन्यथा आरोपितत्वानुपपत्तेः । तदुक्तं
 
दुर्घटत्वमविद्याया भूषणं न तु दूषणं ।
कथञ्चिद्धटमानत्वेऽविद्यात्वं दुर्घटं भवेत् ॥ इति ।
 
तथा च कथमधिकार्यभावः? इत्याशङ्कां सिंहावलोकनन्यायेन परिहरति
दुर्घटत्वं भूषणं चेत्स्यादविद्यात्वमात्मनः ॥ १६ ॥
 

 
यद्यविद्याया अनुपपन्नतैव भूषणमित्यङ्गीक्रियते तदा आत्मनोऽविद्या इत्यपि नाङ्गीकर्तव्यं
वस्तुद्वयकल्पने कल्पनागौरवात् । किं नाम ? आत्मैव अविद्या इत्यङ्गीकार्य । ततश्च आत्मैव आत्माव-
रणं चेत् सर्वदा आवृतत्वप्रसङ्गो मोक्षे च आत्मनिवृत्तिरित्याद्यनुपपत्तिः अविद्याया भूषणं इत्येव समा.
धानं वाच्यं स्यात् । तस्मादनुपपत्तिर्वा परिहर्तव्या, अज्ञानं वा त्याज्यं ।
 
सत्यां प्रतीतौ इदमुच्यते । न च आत्मनोऽविद्यात्वं प्रतीयत इति चेत्समं प्रकृतेऽपि । न हि
सर्वज्ञस्य ब्रह्मणोऽज्ञानं प्रतीयते । नापि ' परमात्मैवोपाध्यवच्छिन्नोहमज्ञः' इति प्रतीतिरस्ति । यथा-
स्वरूपं प्रतिभासाभावश्च आत्मरूपाविद्ययैव कल्प्यतां लाघवादित्युक्तमेवेति ।
 
किञ्च अनुपपत्तिर्भूषणमित्यङ्गीकुर्वता अधिगतवेदान्तस्याप्य द्वैतवा दिनो नित्यनिरयप्राप्तिरङ्गीक
र्तव्या । सर्वज्ञस्य अज्ञानानुपपत्तेरिव अधिगतमहावाक्यस्य नित्यदुःखानुपपत्तेरपि भूषणत्वसम्भवात् ।
निरयादेरप्यविद्यामयत्वात् इत्याह
 
अन्धं तमोप्यलङ्कारो नित्यदुःखं शिरोमणिः ।
 
स्यादिति वर्तते । अधिगतमहावाक्यस्येति शेषः । अनेन परब्रह्मणोऽज्ञानमङ्गीकुर्वाणानामिदं फलं
सचितं भवति ।