उपाधिखण्डनम् /64
This page has not been fully proofread.
मन्दारमञ्जर्या सार्वश्यादिगुणबोधकानामेव श्रुतीनां तत्सत्यत्वे प्रमाणत्वसमर्थनम् ३७१
न च वेदोक्त मिथ्यात्वे मानं...........
(टी.) अत्र न च तन्मिथ्यात्वे मानं इति वक्तव्ये वेदोक्तेति करणदोषाभावोपपादनार्थमुक्तं ।
अपौरुषेयतया वेदे दोषाभावेऽपि प्रतिपत्तुरेव दोषः सम्भवतीति चेन्न । तस्यापि बाधकप्रमाणोन्नेयत्वेन
तदभावे अभावनिश्चयात् ।
।
।
(मं. टि. ) ॥ अङ्गीकृत्य चेदमुदितमिति ॥ यथा 'विज्ञानमानन्दं ब्रह्म' इत्यादौ सत्यपदाभावेऽपि स्वतः
प्रमाणभूतया श्रुत्यैव विज्ञानाद्यात्मकत्वं ब्रह्मणः पारमार्थिकसत्यं सिद्धयति तथा सर्वज्ञत्वादिकमपि श्रुत्या पारमा-
र्थिकं सत्यं सिद्धयतीत्यर्थः । यद्यपि सत्यत्वं न पदार्थ : नापि वाक्यार्थः सत्यत्वस्य सर्वज्ञा दिपदार्थत्वाभावात् संसर्गव्य-
तिरिक्तत्वाच्च, तथापि श्रुतेः प्रामाण्यात् तदर्थेन सत्येन भवितव्यं इति आर्थिकं सत्यत्वं वाक्यार्थः । शक्यार्थस्य
च अर्थात् सत्यत्वानङ्गीकारे ' सत्यं ज्ञानं ' इत्यादावपि 'ब्रह्मण एव सत्यत्वं प्रतिपाद्यते न सत्यत्वस्य सत्यत्वं'
इति ब्रह्मणि या सत्यता तस्याः सत्यता न स्यात् । इष्टापत्तिरिति चेन्न । ब्रह्मसत्यताया असत्यत्वे ब्रह्मासत्यताप्र-
सङ्गादिति भावः । ननु श्रुतेः प्रामाण्यमेव कुतः येन सत्यत्वं पारमार्थिकं स्यादित्यत आह ॥ 'प्रामाण्यस्येति
॥ सिद्धत्वादिति ॥ स्थितत्वादित्यर्थः । ननु प्रामाण्यं स्वतस्तिष्ठतु । किं चातः ? तस्मिन् हि ज्ञातेऽर्थसत्यता
ज्ञायेत इति, अत्राप्येतदेवोत्तरं ॥ 2 ग्रामण्यस्येति । सिद्धत्वादिति ॥ ज्ञातत्वादित्यर्थः । पक्षद्वयेऽप्यतिप्रसङ्गं
शङ्कते ॥ एवं सतीति ॥ स्यादित्युपलक्षणं । प्रमीयेतेत्यपि द्रष्टव्यं । परिहरति ॥ नेति ॥ प्रामाण्यस्येत्युपलक्षणं
तत्प्रमितेश्चत्यपि द्रष्टव्यं । तत्र प्रामाण्यस्थापनयने हेतुः करणदोषैरिति । तत्प्रमित्यपनयने हेतु: बाघकप्रमाणैरिति 1
अनुसंहितैरिति शेषः । बाधकप्रमाणोदयात्पूर्व तु प्रामाण्यं ज्ञायत एवेति भावः । स्थितत्वादित्यत्र प्रमितत्वादित्य
प्यध्याहर्तव्यं । शङ्कते ॥ अपौरुषेयतयेति ॥ परिहरति ॥ नेति ॥ प्रतिपत्तर्हि दोषः पदवाक्ययोः शक्तितात्पर्या-
परिज्ञान । तदपि प्रतीतार्थबाघकप्रमाणोत्नेयं । बाघकप्रमाणाभावेऽपि पदवाक्ययोः शक्तितात्पर्य सन्देह मात्रेण प्रती.
तार्थपरित्यागे गवानयनवाक्यं श्रुत्वा तात्पर्यसन्देहेन न प्रवर्ततेत्यर्थः ।
सार्वश्यादिगुणानां मिथ्यात्वाभावेन परमते अज्ञानासम्भवोपसंहारः
,
6
(टी.) ननु 'नेह नानाऽस्ति किञ्चन इत्यादिश्रुत्या 'विमतो विशिष्टाकारो मिथ्या विशि-
ष्टाकारत्वात् नीलं नम इति विशिष्टाकारवत्' इत्याद्यनुमानेन च सार्वज्ञ्यादेमिथ्यात्वप्रतीतेः कथ तत्र
प्रमाणाभाव: ? अतो व्यावहारिक सार्वज्ञ्यादिविषया: 'यः सर्वज्ञः' इत्यादिश्रुतय इत्यत आह
.. तन्मानताऽपि न ॥ १४ ॥
6
'नेह नाना' इत्यादिश्रुतेः तत्र सार्वज्ञ्यादिमिथ्यात्वे मानताऽपि नास्ति । तथोपपादित -
मन्यत्र । एवं तस्य अनुमानस्यापि मानता नास्ति । धर्मिंग्राहकप्रमाणविरोधादिति व्याख्येयं ।
1 ॥ प्रामाण्येति ॥ इति मुद्रितपुस्तकगत एव पाठः साधुः प्रामाण्यस्वतस्त्वस्येति टीकानुरोधात् 2 ॥ प्रामाण्येति ॥