उपाधिखण्डनम् /63
This page has not been fully proofread.
३७०
उपाधिखण्डने
(मं. टि.) प्रकारेण विशेषे प्रामाणिके सति तस्य यावता विना न निर्वाहस्तावत्सर्वमपि कल्पयामः । विशेषनिर्वा
हकस्य सर्वस्यापि विशेषग्राहकप्रमाणेनैव आक्षिप्तत्वात् । यथाहुः
प्रमाणवन्त्यदृष्टानि कल्प्यानि सुबहून्यपि " इति ।
तस्माद्विशेषे साधकसद्भावात् बाघकाभावाच्च विशेषोऽङ्गीकर्तव्य इति सविशेषाभिन्न इति साधूक्तं ।
ईश्वरगतसार्वश्यादिगुणानां सत्यत्वाक्षेपपरिहारौ
(टी.) भवेदेवं, यदि सार्वज्ञ्यादिकमीश्वरस्य सत्यं स्यात् । न चैतदस्ति । तत्र प्रमाणाभावात् । 'यः
सर्वज्ञः' इत्यादिश्रुतयस्तु सार्वज्यादिकमेव प्रतिपादयन्ति । न पुनस्तस्य सत्यतां । तथा अश्रवणात् । मृषा
विरुद्धधर्माधिकरणतया तात्विक भेद प्रतीत्युपपादनमयुक्त । अतिप्रसङ्गादिति । अत आह
सत्यः सो अस्य महिमेत्यादिवाक्यान्मृषा न च ।
।
सार्वज्ञ्यादिगुणा त्रिष्णोरिति वर्तते । यद्यपि 'यः सर्वज्ञः' इत्यादिश्रुतयः सार्वज्ञ्यादिकमेव प्रति
पादयन्ति तथापि सः वेदोदितः, अस्य महिमा सर्वज्ञत्वादि, सत्य एव इति वाक्यान्तरात्
सत्यता वगमात् न सार्वश्यादिकं मृषा इति ।
(मं. टि.) ॥ तथा अश्रवणादिति ॥ ' सर्वज्ञत्वादिकं सत्यं' इति अश्रवणादित्यर्थः । यत्र शब्दो गृही-
तसङ्गः कः तत्र प्रतीति जनयति । न च सर्वज्ञादिशब्दाः तत्सत्यत्वगृहीतसङ्गतिका इति भावः । ननु विरुद्धधर्में
4
। रेव भेदसिद्धौ न तत्सत्यता अपेक्ष्यत इति । तत्राह ॥ मृषेति ॥ अतिप्रसङ्गादिति ॥ शुक्तिकायां शुक्तिकात्व-
विरुद्धस्य रजतत्वस्यारोपितस्य सत्वेन शुक्तिकायाः शुक्तिकातो मेदप्रसङ्गादित्यर्थः ।
सार्वश्यादिगुणबोधकानामेव श्रुतीनां तत्सत्यत्वे प्रमाणत्वसमर्थनम्
(टी.) अङ्गीकृत्य चेदमुदितं । वस्तुतस्तु वस्तुविषयकमेव ज्ञानं तत्सत्यत्वे प्रमाणं । न पुनस्तत्र
प्रमाणन्तरापेक्षा । प्रामाण्यस्वतस्त्वस्य सिद्धत्वात् । अतो ' यः सर्वज्ञः' इत्यादिश्रुतिरेव तत्सत्यतां प्रति-
पादयतीत्यनुपपन्न एवाक्षेपः । एवं सति शुक्तिरजतादिसत्यतापि स्यादिति चेन्न । औत्सर्गिकप्रामाण्यस्य
करणदोषैर्बाधकप्रमाणरपनयनेन तन्मिथ्यात्वस्य स्थितत्वात् । न चैवमेवास्तु प्रकृतेऽपीति वाच्यं । कर-
णदोषचा धकप्रमाणाभावादित्याह