This page has not been fully proofread.

मन्दारमञ्जर्यां विशेष प्रमाणान्तराभिधानम्
 
(मं. टि ) इति । अथ मतं 'घटतद्भेदा दिपदानामत्यन्ताभिन्नार्थत्वं भवेत् । तथापि तेषामपर्यायता निर्वाहार्थ न विशेषः
कल्पनीयः । घटत्वभेदत्वादिप्रवृत्तिनिमित्त मेदादेव अपर्यायतोपपत्तेः । न च घटतद्भेदयोर्भेदाभावे कथं घटत्व भेदत्वयो -
रपि भेद: ? इति वाच्यं । धर्मिभेदाभावेऽपि धर्म भेददर्शनात्' इति । तन्न । अत्यन्ताभिन्नार्थाभिधायिनां शब्दानां प्रवृत्ति-
निमित्त मेदमात्रेणापर्यायत्वे घटकलशादिशब्दानामध्यपर्यायताप्रसङ्गात । कपालोपादानत्वं घटत्वं, कपालसंयोगास-
मवायिकारणकत्वं कलशत्वं इत्यपि वक्तुं शक्यत्वात् । ' स्थितस्य गतिश्चिन्त्यते' इति कथमतिप्रसङ्गः इति चेन्न ।
अनतिप्रसञ्जकस्यैव चिन्तनीयत्वात् । तस्मात् 'शुक: पट:' इत्यादावपि विशेषबलादेवापर्यायत्वं वाच्यं ।
 
विशेषलक्षणान्तरस्थापनम्
 
एवं च अभिन्नार्थाभिधाय्यनेक शब्दापर्यायता निर्वाहकत्वं च विशेषलक्षणं स्थापितं भवति । भेदसञ्जीविन्यां
त्वलाभिर्विशेषमाच्छाद्य नैयायिकादिपक्षाश्रयणेन भेदपटादिशब्दानामपर्यायत्वं प्रत्यपादीति न तेनास्य विरोधः ।
विशेषे अनुमानान्तरम्
 
'अयं घटः एतद्धटनिष्ठभेदातिरिक्तभेदकार्यकराश्रयः घटत्वात् घटान्तरवत्' इत्यनुमानाच विशेषसिद्धिः ।
न चास्यानुमानस्य आभाससमानयोगक्षेमत्वं शङ्कयम् । तर्कानुग्रहाननुग्रहाभ्यां विशेषात् ।
 
विशेषस्य शक्तिविशेष रूपत्वसमर्थनम्
 
यच्चोक्तं, अपि च कोऽयं विशेष : इत्यादि । तत्र शक्तिविशेषो विशेष इति ब्रूमः । शक्तेः खादि
षये कथं कार्यकरत्वं ? इति वाच्यं, विशेषाख्यायाः शक्तेर्धर्मिग्राहकप्रमाणेन अभिन्ने भेदकार्य विषयकत्वाकारेणैव
सिद्धत्वात् अभिन्ने भेदकार्यस्य स्वाविषयत्वाभावात् ।
 
विशेषस्य धर्मिपदार्थस्वरूपत्वसमर्थनम्
 
स च विशेषस्तत्पदार्थस्वरूपमेव । न च तथात्वे आश्रयायिभावानुपपत्तिः । स्वाभिन्नेऽपि स्वाश्रयत्वसम्पा
दकत्वाकारेणैव तत्सिद्धेः ।
 
विशेषाङ्गीकारे अनवस्थादोषपरिहारः
 
यञ्चोक्तं ' किं च विशेषे विशेषाङ्गीकारे अनवस्था' इत्यादि । तत्र विशेषे विशेषो नास्तीति ब्रूमः । कथं
तर्हि तत्र मेदकार्यदर्शनं ? आधारभूत विशेषमाहात्म्यबलादेवेत्यवेहि ।
 
अन्यत्रादृष्टं विशेषे माहात्म्यं धर्मिग्राहकमानसिद्धम्
 

 
कुत एतत् ? इत्थं, यथा ' ज्योतिष्टोमेन यजेत' इति तृतीयया यागस्य करणत्वे प्रामाणिके सति तन्नि
बहा कालान्तरदेशान्तरदेहान्तरभोग्यफलं कल्पयित्वा तस्य च फलस्म सद्यः प्रध्वस्त यागजन्यत्वानुपपत्तिपरिहारार्थ
मध्ये अपूर्वमित्यादिकं कल्प्यते । प्रमाण सिद्धार्थनिर्वाहार्थं कल्प्यमानस्यापि प्रामाणिकत्वात् । एवं प्रकृतेऽप्युक्त-