उपाधिखण्डनम् /61
This page has not been fully proofread.
1
३६८
उपाधिखण्डने
विशेषेण भेदकार्यनिर्वाहे मेदवैयर्थ्यशङ्कानिरास:
1
(मं. टि. ) न चानेनैव सर्वकार्यनिर्वाहे भेदो दत्ततिलाञ्जलिः स्यादिति युक्तं । तथात्वे सर्वत्र पूतिकाग्रहणे
सम्भवति सोमापेक्षाभावप्रसङ्गात् । सिंहेऽपि कौर्यस्यानुगतत्वेन सिंहव्यवहारनिर्वाहकत्वे सम्भवति सिंहत्वस्य दत्त-
तिलाञ्जलित्वप्रसाच्च । तत्र 'मुख्ये सम्भवति नामुख्यं कल्प्यते' इति चेत् समः समाधिः ।
घटस्य स्वरूपमिति व्यवहारस्य सामान्यविशेषविषयकत्वनिरास:
ननु 'घटस्य स्वरूप ' इत्यादिव्यवहारः सामान्यविशेष विषयकः । स्वरूपस्य पटादावपि साधारण्यात् ।
तथा च सामान्यविशेषभावेन भिन्नविषयकत्वात् 'घटस्य स्वरूप ' इत्यादिव्यवहारो न विशेषकल्पक इति चेन्न ।
'घटस्य स्वरूपं ' इत्यत्र स्वरूपशब्देन किं घटस्वरूप विवक्षित ? किं वा अन्यस्य स्वरूपं ? सामान्यं वा ? नाद्यः
तस्याव्यसाधारण्येन सामान्यविशेषभावाभावात् । न द्वितीयः तस्यैतदीयत्वायोगात् । न तृतीय: घटाद्यसाधारण-
स्वरूपातिरिक्तस्य सर्वानुगतस्यैकस्याभावात् । भावे वा सर्वाद्वैतापत्तेः । ननु स्वरूपस्यानुगतस्याभावेऽपि स्वरूपत्वं
नाम घर्मः घटादाबध्यनुगतः । न तथा घटत्वं । तावतैव सामान्य विशेषभाव इति चेन्न । अस्माभिरनुगतस्य स्वरूपत्व
स्याप्यनङ्गीकारात् । अङ्गीकारे वा 'द्रव्यं घट: ' 'मनुष्यो ब्राह्मणः' इत्यादिवत्सामानाधिकरण्यमेव स्यात् । न तु
सम्बन्धव्यवहारः । सामान्य विशेषभावमात्रेण षष्ठीप्रयोगे 'ब्राह्मणस्य मनुष्यः' इत्यपि स्यात् ।
विशेषे लक्षणाभिधानम्
एतेन अत्यन्ता भेदे भेदव्यवहारनिर्वाहकत्वं विशेषलक्षणं चोपपादितं द्रष्टव्यं ।
विशेषे प्रमाणान्तराभिधानम्
अपि च ' ब्रह्मतदानन्द घटतत्स्वरूप तद्भेद । दिपदानि अपर्यायता निर्वाहकपदार्थवन्ति अपर्यायपदत्वात् घट-
पटपदवत्' इति । स चापर्यायता निर्वाहकः न तावद्धटपटादाविव अत्रापि भेदः सम्भवति । ब्रह्मतदानन्दादीनां भेदा-
भावात् । नापि घटतद्रूपादिष्विव भेदाभेदौ, आत्यन्तिका भेदस्योपपादितत्वात् । तथा च तन्निर्वाहकः कश्चित्पदा-
र्थोऽङ्गीकर्तव्यः । स एव च विशेष इति हि गीयते । यथोक्तं भगवत्पादैः
भेदहीने त्वपर्यायशब्दान्तरनियामकः ।
विशेषो नाम कथितः सोऽस्ति वस्तुष्वशेषतः ॥
1 पूतीकग्रहणे इति पाठः स। धुरिति भाति.