This page has not been fully proofread.

विशेषस्वरूपस्य दुर्निरूपत्वशङ्का
 
३६७
 
(मं. टि.) पपत्तेः । न द्वितीय : भेदस्यापि घटस्वरूपत्वेन भेदस्वभावस्यापि विशेषस्य घटाश्रितत्वानुपपत्तेः । नापि
द्वितीय: अभिन्ने भेदव्यवहारजननसमर्थायाः शक्तेरदर्शनात् । न हि शक्तिरपि स्वाविषये स्वकार्य करोति । न चाभिन्नो
भेदव्यवहारजननसमर्थशक्तिविषयः । व्याघातात् । किं च विशेषेऽपि विशेषाङ्गीकारेऽनवस्था । अनङ्गीकारे तु
विशेषतत्स्वरूपतद्भेदशब्दानां पर्यायतापत्तिः । तस्माद्विशेषस्यानुपपन्नत्वात् सविशेषाभिन्नः इत्युक्तमयुक्तमिति ।
 
विशेषे प्रमाणाभिधानम्
 
अत्र ब्रमः ।
 
1
 
आनन्दो ब्रह्मणः कुम्भस्वरूपमिति भाषितं ।
सम्बन्धव्यवहारत्वात्सम्बन्धं कल्पयिष्यति ॥
 
'आनन्दो ब्रह्मणः' 'घटस्य भेदः' इत्यादिव्यवहारः सम्बन्धपूर्वक सम्बन्धव्यवहारत्वात् संमतवत् । अन्यथा
कारणं विना कार्याङ्गीकारे व्याघातः । व्यवह्रियमाणस्य व्यवहारं प्रति विषयतया कारणत्वात् । औपचारिकोऽयं
व्यवहार इति चेत् । कोऽर्थ : ? किं निर्निमित्त इति ? किंवा आरोपितविषय इति ? यद्वा क्लृप्तनिमित्ताभावेऽपि
निमित्तान्तरवानिति ? नाद्यः व्याघातादित्युक्तत्वात् । न द्वितीयः 'आनन्दो ब्रह्मणः' इत्यादि श्रौतव्यवहारस्या-
प्यारोपितविषयत्वे श्रुतेरप्रामाण्यप्रसङ्गात् । 'न घटस्य भेदः' ' न घटस्य स्वरूपं ' इति विपरीतव्यवहाराभावेन
'घटस्य स्वरूपं ' इत्यादिलौकिकव्यवहारस्याप्यभ्रान्तत्वात् । तृतीये सिद्धं नस्समीहितं । क्लतभेदा ख्यानिमित्ता-
भावेऽपि यन्निमितान्तरमङ्गीक्रियते तस्यैवास्माभिर्विशेषत्वेन व्यवहरणात् । स च सम्बन्धो भेदगर्भः सोमासम्भवे
'पूतिकावत् भेदासम्भवे तत्प्रतिनिधि कल्पयति यतः ।
 
1
 
;
 
घटस्य स्वरूपमित्यादिव्यवहारस्य भेदाभेदाभ्यामुपपत्तिनिरास:
 
न च भेदासम्भवोऽसिद्धः भेदाभेदाङ्गीकारेणाप्युपपत्तेरिति युक्तं । ' एवं धर्मान्' इति तन्निषेधात् । न
च तत्राप्यात्यन्तिकभेद एव निषिद्धयत इति युक्तं । लोकेऽपि धर्मंघमिणोरात्यन्तिक भेदाभावस्य सिद्धत्वेन विशिष्य
कथनानुपपत्तेः । धर्मधर्मिणोरात्यन्तिक भेदाभावश्च भाष्यकारटीकाकाराभ्यामेवान्यत्रोपपादितः । 'घटस्य स्वरूप '
इत्यादावपि न भेदाभेदावङ्गीकारा हौं । घटस्य स्वरूपातिरेकेण घटस्याभावेन तयोर्मात्रयाऽपि भेदासम्भवात् । भेदा-
भेदयोर्विरोधेन तद्विरोधशमनार्थं विशेषस्य आवश्यकत्वाच्च ।
 
अभेदविरोधिभेदप्रतिनिधेर्विशेषस्याभेदाविरोधित्वम्
 
-
 
न च विशेषस्यापि भेदप्रतिनिधित्वेना भेदविरोध: समान इति वाच्यं । माणवके मुख्यसिंहव्यवहारनिमि-
त्तस्य सिंहत्वस्य विरोधेऽपि अमुख्यक्रौर्यादेरविरोधचदत्राप्युपपत्तेः । धर्मिग्राहकप्रमाणेन विशेषस्य भेदकार्यकरस्यापि
अभेदाविरोधेनैव सिद्धत्वात् । तत्र विरोधापादकतर्कस्यापि धर्मिग्राहकप्रमाणविरोधेनानुत्थानाच्च ।
 
पूतीकवत् इति मुद्रित पुस्तकस्थ: पाठ एव साधुरिति भाति.
 
,