This page has not been fully proofread.

३१३
 
मन्दारमञ्जर्या स्वरूपतोऽनादित्वपरिष्कार:
 
३१३

 
(मं. टि.) स्वप्रागभाव: प्रसिद्ध : ? उत न ? आद्ये कथमयं न तत्प्रतियोगी स्यात् ? इत्यसम्भवः । द्वितीये त्वसम्भवः ।
1 स्वप्रागभावाप्रसिद्धौ तत्प्रतियोगित्वाभावस्य दुर्ज्ञानत्वात् । नापि द्वितीय: । घटस्यापि पटप्रागभावाप्रतियोगि
नोऽनादित्वापातात् । तृतीयेऽपि मात्रशब्दः किं कार्यवाची किंवा सामान्यवाची ? नाद्यः । घटस्याऽपि
' कृत्स्नप्रागभावाप्रतियोगिनोऽनादित्वापातात् । न हि घटः पटादिप्रागभावप्रतियोगी । न द्वितीयः । आका-
शादिप्रतियोगिकप्रागभावस्याप्रामाणिकत्वात् प्रामाणिकाप्रामाणिकयो: सामान्याभावात् । एवमेव कारणशून्य-
त्वमिति द्वितीयोऽपि निरसनीयः । तस्मादविद्यानादित्वं दुर्निरूपमिति । अत्रोच्यते ।
 
3
 
4
 
घटादौ प्रमिता तावत्प्रागभावेन युक्तता ।
आरोप्य बुद्धि पूर्वं सा गगनादौ निषिद्धयते ॥
 
:
 
.
 
स्वप्रागभावाप्रतियोगित्वमेवानादित्वम् । यत्तु 'स्वप्रागभावाप्रसिद्धौ 'स्वप्रागभावप्रतियोगित्वाभावोऽप्य-
सिद्धः' इति तत्र किं ' प्रतियोगिनोऽसत्वेऽभावोऽपि न स्यात् ' इत्यर्थो विवक्षितः ? । किंवा 'प्रतियोगिनोऽसत्वे
तज्ज्ञानोपायाभावेन प्रतियोगिज्ञानपूर्वकमभावज्ञानं च न स्यात् इति ? । नाद्यः । प्रागभावप्रध्वंसयो प्रतियोगि
सत्त्वेन व्याप्तत्वेऽपि अत्यन्ताभावस्य तेन व्याप्त्यभावात् । अत्यन्ताभावो हि प्रत्युत प्रतियोगिनोऽसत्त्वमेवा-
पेक्षते । प्रकृते च स्वप्रागभावप्रतियोगित्वात्यन्ताभावस्य लक्षणत्वेन विवक्षितत्वात् । न द्वितीयः । 'घटरादौ
प्रमितस्य स्वप्रागभावप्रतियोगित्वस्य गगनादौ बुद्धिपूर्वकमारोप्य निषेधात् । निषेधो हि प्रसक्तिपूर्वकः । प्रसक्तिश्च
बुद्धिपूर्वकारोप एव । 'इह भूतले घटो नास्ति' इत्यादौ भूतलान्तरे प्रमितस्य घटस्य इह भूतले बुद्धिपूर्वक-
मारोप्य निषेधे एतद्भुतलस्य घटाभावः सिद्धयति यथा एवमेवात्रापि घटादौ प्रमितस्य स्वप्रागभावप्रतियोगित्वस्य
गगनादौ बुद्धि पूर्वकमारोप्य निषेधे गगनस्य स्वप्रागभावप्रतियोगित्वाभावो ज्ञातो भवति । अथ वा घटादौ
स्वप्रागभावप्रतियोगित्वस्य दर्शनात् 'गगनं स्वप्रागभावप्रतियोगि वस्तुत्वात् घटवत्' इत्याद्यनुमानाभासैगगनादेः
स्वप्रागभावप्रतियोगित्वे प्रसक्ते तन्निषिद्धयत इति नाप्रसक्तप्रतिषेधः । एवमेव स्वकारणराहित्यस्वोत्पत्तिराहित्या-
दीन्यनादित्वलक्षणान्यूह्यानि । एवमेव 'प्रध्वंसाप्रतियोगित्वं नित्यत्वमित्यादीन्यपि समर्थनीयानीति दिक् ।
 

 
8
 
प्रवाहतोऽनादित्वपरिष्कारः
 
9
 
' नन्वथापि प्रवाहतोऽनादित्वमिति कोऽर्थ: प्रवाहोऽनादिरित्यर्थ इति चेत् । स किं प्रवाहिभ्यो
भिद्यते ? उत न ? आद्येऽपि स किं प्रवाहिभिरारभ्यते ? उत ' ' ज्ञाप्यते ? आद्ये कथमयमनादि: स्यात् ?
 
10.
 
1 प्रागभावाप्रसिद्धौ. 2. न द्वितीय: 3 कृत्स्नप्रागभावाप्रतियोगिनोsनादित्वप्रसङ्गात्.
4 सामान्यस्याभावात्.
5 स्वप्रागभावप्रतियोगित्वाभावोऽप्यप्रसिद्ध इति. इत आरभ्य अथवा इत्यन्तो भागो मुद्रितपुस्तके नास्ति.
ध्वंसाप्रतियोगित्वं. 8 समर्थनीयानि.
9 तथापि.
10 ज्ञायते.
 
6