उपाधिखण्डनम् /59
This page has not been fully proofread.
उपाधिखण्डने
(मं टि.) एतेनैतदपि परास्तं । घटभेदशब्दौ तावदपर्यायतया प्रसिद्धौ । न चैतयोरपर्यायत्वं घटपट-
शब्दादा विवात्यन्त भिन्नार्थवाचित्वेन सम्भवति । घटतद्भेदयोरात्यन्तिक भेदाभावात् । नापि घटरूपादिशब्दवद्भिन्ना-
भिन्नार्थवाचित्वेन, घटतद्भेदयोरत्यन्ता भेदात् । तस्मात् तदपर्यायता निर्वाहकः कश्चिदङ्गीकार्यः स एव विशेष इति ।
उक्तन्यायेन भेदाभेदाङ्गीकारेणैव सर्वव्यवस्थोपपत्तेः । तस्मान्न विशेषे प्रमाणमस्ति ।
विशेषे लक्षणाभावशङ्का
,
नापि लक्षणमस्ति । तथा हि, न तावद्वेदव्यवहारनिर्वाहकत्वं तल्लक्षणं, घटपट भेद व्यवहारनिर्वाह के भेदेऽ
तिव्याप्तेः । नाप्यमिन्ने भेदव्यवहारनिर्वाहकत्वं, घटाभिन्ने रूपे 'घटस्य रूपं ' इति भेदनिबन्धनसम्बन्धव्यवहारनि
र्वाह कभेदेऽतिव्याप्तेः । अत्यन्ताभिन्ने भेदव्यवहारनिर्वाहकत्वमिति चेन्न असम्भवात् । एकपदार्थाभिधाय्यनेकश-
ब्दापर्यायता निर्वाहकत्वमिति चेन्न । 'शुक्ल: पट:' इत्यत्र एकपटाभिघाय्यनेक शब्दापर्यायता निर्वाह के शुक्लपद
प्रवृत्तिनिमित्त शौक्लये पटपदप्रवृत्ति निमित्त पटत्वे चातिव्याप्तेः । प्रवृत्तिनिमित्तभेदरहितैकार्थाभिघाय्यनेकशब्दापर्याय -
तानिर्वाहकत्वं लक्षणमिति चेन्न असम्भवात् । घटभेद दिशब्देष्वपि घटत्वभेदत्वादिप्रवृत्तिनिमित्तभेद सद्भावात् ।
1 तस्मान्न विशेषे प्रमाणं लक्षणमध्यस्तीति ।
विशेषस्य भेदस्वरूपत्वशङ्का
अपि चाय विशेषः किं भेदकार्यं करोति ? उत न ? न चेत्किमनेनाङ्गीकृतेन । आद्ये भेद एवायं नामा-
न्तरेणोच्यते । भेदकार्यकरस्यैव भेदत्वात् । क्लृप्तकारणं विना कार्यायोगात् ।
विशेषाशीकारे भेदस्वरूपापलापशङ्का
एकस्यैव सम्बन्धव्यवहारकार्यस्य कारणद्वयं भेदो विशेषश्चेति । तत्र भेदो 'देवदत्तस्य कम्बलः' इत्या-
दिसम्बन्धव्यवहारहेतुः । 'घटस्य भेदः' इत्यादेस्तु व्यवहारस्य विशेषो हेतुरिति व्यवस्थाऽस्त्विति चेत्,
किमनया
कल्पनया ? देवदत्तस्य कम्बलः' इत्यादिप्रत्ययप्रयोगयोरपि विशेष एव हेतुरस्तु । तथात्वेऽनुगमा लिंक भेदेन ? इति ।
तथा च भेदकार्यनिर्वाहार्थं कल्प्यमानो विशेषो भेदमेवोन्मूलयतीति ।
विशेषस्वरूपस्य दुर्निरूपत्वशङ्का
अपि च कोऽयं विशेष : ? किं स्वभावभेद: ? किं वा शक्तिविशेष : ? आद्येऽपि किं घटस्य स्वभाव: ? किंवा
भेदस्य ? नाद्यः, स्वभाव: स्वरूपमिति पर्यायौ । तथा च घटस्य विशेषाश्रयताया अनुपपत्तिः । स्वस्य स्वाश्रयतानु-
6
1" तस्मान्न विशेषे लक्षणमप्यस्तीति' इति मुद्रितपुस्तकगत: पाठ एव साधुरिति भाति तस्मान्न विशेषे प्रमाणमस्ति '
इति प्रमाणनिराकरणस्य पूर्वमेव कृतत्वात्.