This page has not been fully proofread.

मेदस्य धर्मिस्वरूपत्वपक्षे प्रतियोगिज्ञानादिनैष्फल्यशङ्का तन्निरासश्च
 
३६५
 
(टी.) मात्रस्य परेणाप्यङ्गीकृतत्वात् विवादानुपपत्तेः । किं नाम ? अन्योन्याभाव एव । सच रूपादिवत्
वस्तुना सविशेषाभिन्न इत्येव स्वरूपं भेद इत्यस्यार्थ: । अन्योन्याभावश्च प्रतियोगिनिरूप्य इत्युपपन्न-
मेव तत्प्रतीत्यनुसरणं । सादृश्यादिना सन्नप्यन्योन्या भावो नोपलभ्यत इति विरुद्धधर्मोपन्यासोऽप्यु-
पपद्यते । अत एव भेद इति प्रस्तुतेऽपि अन्यत्वं इत्युक्तं ।
 
(मं. टि.) शकते ॥ ननु भेदो नामेति ॥ अतस्तदर्शनमेव भेददर्शन मिति ॥ तच्च प्रतियोगिप्रतीत्य-
नपेक्षमिति वाक्यशेषः । विरुद्धधर्मकथनं च असङ्गतं, स्वरूपाभिन्ने मेदे कस्यापि विप्रतिपत्तेरभावादित्याह ॥ किं
चेति ॥ तदुपपादनाय विरुद्धधर्मोपन्यासेन च किं ? इति चशब्दो भिन्नकमः । परिहरति ॥ मैवमिति ॥ ननु
स्वरूपातिरेके भेदस्यानवस्थाप्रसङ्गात् स्वरूपमात्रत्वं भेदस्येति शङ्कते ॥ किं नामेति ॥ परिहरति । अन्योन्या-
भाव इति ॥ तादात्म्यनिषेध इति यावत् ॥ सविशेषेति ॥ विशेषेण सहकाधिकरणक इत्यर्थः ।
 
विशेषाङ्गीकारे प्रमाणाक्षेपः
 

 
ननु विशेषे किं प्रमाणं ? 'घटस्य भेदः' इति सम्बन्धव्यवहारः प्रमाणमिति चेन्न । 'देवदत्तस्य कम्बल: '
इतिवत् भेदेनैवोपपत्तेः । अभेदे सत्यपि सम्बन्धव्यवहारः प्रमाणमिति चेन्न 'घटस्य रूपम् ' इतिवत् अभेदेना-
प्युपपत्तेः । भेदासहिष्ण्वभेदे सत्यपि सम्बन्धन्यवहारः प्रमाणमिति चेन्न । तस्यासिद्धेः । तत्प्रतीतौ तत्प्रतीतिरि
त्याद्यभेदकार्यस्य अभेदमात्रेणोपपत्तौ 'घटस्य भेदः' इति सम्बन्धपतीतिप्रापितस्य भेदस्याप्यङ्गीकार्यत्वेन भेदस्य घटे-
न आत्यन्तिका भेदासम्भवात् ।
 
नन्वीश्वरतद्गुणयोः भेदो नाङ्गीकार्थः ।
 
एवं धर्मान् पृथक् पश्यंस्तानेवानुविधावति ॥
 

 
इति भेदप्रतिषेधात् । तथा च भेदासहिष्णुरभेदोऽङ्गीकार्यः । अथापि श्रूयते ' आनन्दो ब्रह्मणः' इति ब्रह्मान -
न्दयोः सम्बन्धः । तथा च तन्निर्वाहार्थं विशेषोऽङ्गीकर्तव्य इति चेत्, नाङ्गीकर्तव्यः । ' एवं धर्मान्' इति श्रुतौ
च आत्यन्तिक भेद निषेधात् । भेदमात्र निषेधे सम्बन्धव्यवहारे कारणत्वेन क्लृप्तभेदस्य परित्यागप्रसङ्गात् । क्लृप्त-
कारणपरित्यानेन अक्लप्तकारणान्तरकल्पने च संसर्गव्यवहारे कारणत्वेन क्लृप्तसंसर्गप्रत्ययस्य परित्यागेन असं-
सर्गाग्रहस्यैव कारणत्वकल्पनेन अख्यातिपक्षपातप्रसङ्गात् । न च भेदाभेदयोर्विरोधात् तद्विरोधशमनाय विशेषोऽ
जीकार्य इति वाच्यं । विशेषस्यापि 'भेदकार्यस्य भेदवदभेदविरोधित्वेन अभेदेन सहावस्थानासम्भवात् । तत्र
प्रतीतत्वादविरोध इति चेत्समं भेदाभेदयोरपीति ।
 
। मेदकार्यकरस्य इति मुद्रित पुस्तकस्थपाठ एव साधुरिति भाति.