This page has not been fully proofread.

उपाधिखण्डने
 
(टी.) जीवनिष्ठतयेति पूरणीयं । हिशब्दो यम/दित्यर्थे । तस्मादीशादपि स्वात्मनोऽन्यत्वं सर्वे-
रनुभूयत एवेति पूर्वोक्तानुवृत्त्या अन्वयः । न हीशधर्मविरुद्धधर्मवन्तमात्मानं प्रत्यक्षतः पश्यन् ततोऽन्य-
त्वं न पश्यतीति युज्यते । अतिस्फुटतां भेदप्रत्यक्षस्योपपादयितुं विरुद्ध धर्मबाहुल्योपपादनं ।
 
३६४
 
जीवेश्वरभेदे अनुमानप्रमाणसमर्थनम्
 
अनेन जीवेश्वरभेदस्य अनुमानसिद्धता चोपपादिता भवति ।
 
(मं. टि.) विरुद्धधर्मकथनेनैव ईश्वरप्रतियोगिकजीवाश्रय भेदेऽप्यनुमानं प्रमाणमुक्तमित्याह ॥ अनेनेति ॥
प्रयोगस्तु ' विमतौ अन्योन्यप्रतियोगिकधर्मिसत्तासमान सत्ताक भेदाश्रयौ अन्योन्यानिष्ठतया प्रतीयमानधर्माश्रयत्वात्
संमतवत् ' इति । ननु किमत्र अन्तःकरणावच्छिन्नं चैतन्यं पक्षः? किं वा चैतन्यमात्रं ? नाद्यः सिद्धसाधनत्वात् ।
अवच्छेदक भेदेनावच्छिन्न भेदस्या स्माभिरङ्गीकारात् । अवच्छिन्नस्य व्यावहारिकत्वात् तत्समान सत्ताकस्य व्यावहा-
रिकस्म मेदस्य अस्माभिरप्यङ्गीकारात् । न द्वितीयः तत्र विरुद्धधर्माभावेन असिद्धेरिति चेत् नैष दोषः । ययोब्रह्म-
त्वादिकल्पना तत्पक्षे तयोस्तत्त्वंपदार्थयोः पक्षीकरणात् । अन्यथा अभेदसाधकानुमानेऽपि अवच्छिन्नपक्षीकारे अप
सिद्धान्तात् । अन्यथा सिद्धसाधनताप्रसङ्गादिति । नचैवमसिद्धिः । संसारिण्यल्पज्ञत्वादेः प्रत्यक्षेण, ब्रह्मणि च सार्व
ज्यादेः श्रुत्या सिद्धत्वात् ।
 
जीवेश्वरभेदसाधकानुमानस्यासिद्धिशङ्खापरिहारः
 
(टी.) स्यादेतत्, यदि सार्वज्ञ्यादिगुणवत्तया ईश्वरः सिद्धः स्यात् तदेव कुतः ? इत्यत आह
सार्वज्ञ्यादिगुणा विष्णोः श्रुतिषु प्रतिपादिताः ॥ १३ ॥
 
यः सर्वज्ञः स सर्ववित्, पराऽस्य शक्तिर्विविधैव श्रूयते, य आत्माऽपहतपाप्मा, स हि सर्वस्य
कर्ता इत्याद्याखिति शेषः ।
 
(मं. टि.) चोदयति ॥ स्यादेतदिति ॥ परिहरति ॥ अत आहेति ॥ सार्वज्यादिक मल्पज्ञत्वादिविरुद्धं
श्रुत्या ईश्वरस्य प्रतिपादयितुं क्रमेण ताः पठति ॥ यः सर्वज्ञ इत्यादिना ॥
 
भेदस्य धर्मिस्वरूपत्वपक्षे प्रतियोगिज्ञानादिनैष्फल्यशङ्का तन्निरासश्च
 
(टी.) ननु भेदो नाम वस्तुस्वरूप मेव । अतस्तदर्शनमेव भेददर्शनमिति किं प्रतियोगिप्रतीत्यनुस-
रणेन ? किं च तदुपपादनाय विरुद्धधर्मोपन्यासेन ? मैवं, न निर्विशेषवस्तुमात्रं भेदः । तथा सति वस्तु-