उपाधिखण्डनम् /56
This page has not been fully proofread.
प्रेमालक्षणान्तरनिरासेन स्वोक्तलक्षणसमर्थनम्
(मं. टि.) रांशे च यथावस्थितज्ञेयविषयी कारिस्वाभावात् । यद्वा यादृच्छिक संवादिविप्रलम्भक वाक्यस्यानुप्रमाणता-
व्युदासाय एवकारो व्याख्येयः । तथा च न शुद्धाऽप्रमासाधनप्रयास इत्यलं प्रपञ्चेन ।
आत्मभेदस्य सत्यमिथ्योपाधिकृतत्वमेव स्वाभाविकत्वमिति शङ्कानिरास:
द्वितीयं दूषयति ॥ सत्योपाधिकृतत्वं त्विति ॥ मिथ्योपाधिकल्पितत्वं तु सत्यत्वसाधनेन निरस्त मिति
भावः ।
जीवानां मिथो भेदस्य अनुमानसिद्धत्वसमर्थनम्
(टी.) अनेन जीवभेदस्य विरुद्धधर्मसंसर्गेणानुमानेनापि सिद्धिरुक्ता भवति ।
(मं. टि.) अनुमानं च जीवभेदे प्रमाणयति ॥ अनेनेति ॥ विरुद्धधर्मकथनेनेत्यर्थः । ननु पारमार्थिको
भेद: साध्यते ? किं वा अपारमार्थिक : ? नाद्यः अप्रसिद्ध विशेषणत्वात् । अस्माभिः पारमार्थिकस्य कुत्राप्यनङ्गी-
कारात् । न द्वितीयः सिद्धसाधनत्वादिति चेत् नैष दोषः धर्मिसत्तासमानसत्ताक मेदस्य साध्यत्वात् । एवं च
नाप्रसिद्ध विशेषणता व्यावहारिक सत्ताश्रयघटधर्मिकस्य तद्भेदस्य त्वयापि धर्मिसत्तासमानव्यावहारिकसत्ताङ्गीकारात् ।
नापि सिद्धसाघनता अत्र चैतन्यस्य पारमार्थिकसत्ताश्रयस्य धर्मित्वात् । तद्भेदस्यापि धर्मिसत्तासमानसत्ताकत्वेन
साध्यमानस्य पारमार्थिकसत्ताश्रयत्वेन पर्यवसानात् । धर्माणां विरोधश्च सहानवस्थानलक्षणो विवक्षितः । न चैका-
त्मवादिनामसिद्धो विरोध इति वाच्यं । सहानवस्थितत्वेन प्रतीयमानत्वस्य वा सहावस्थितत्वेनाप्रतीयमानत्वस्य वा
सहानवस्थानशब्देन विवक्षितत्वात् ।
तथा च प्रयोगः, 'देवदत्तो यज्ञदत्तप्रतियोगिकखसत्तासमानसत्ताक भेदाश्रयः तदनिष्ठत्वेन प्रतीयमानधर्माश्रय
त्वात् तन्निष्ठत्वेनाप्रतीयमानधर्माश्रयत्वाद्वा, यदेवं तदेवं यथा घटानिष्ठत्वेन प्रतीयमानस्य घटनिष्ठत्वेन अप्रतीयमा-
नस्य वा पटत्वादिधर्मस्याश्रयः पटो घटप्रतियोगि कस्वसत्ता समानसत्ताक भेदाश्रयः' इति ।
जीवेश्वरभेदे प्रत्यक्षप्रमाणसमर्थनम्
(टी.) एवं जीवानां परस्परभेदस्य प्रत्यक्षत्वे असम्भवं परिहृत्य प्रत्यक्षता चोपपादिता । इदानीं
जीवेश्वरभेदस्य प्रत्यक्षतामुपपादयति
अज्ञता चाल्पशक्तित्वं दुःखित्वं स्वल्पकर्तृता ॥ १२ ॥
सर्वज्ञत्वादीशगुणविरुद्धा ह्यनुभूतिगाः ।