This page has not been fully proofread.

३६२
 
(मं. टि.) तथोल्लेख्यमानत्वस्य संवादित्वे प्रमात्वस्यैव निरूप्यमाणत्वेनात्माश्रयात् । न द्वितीयः अनुपसञ्जातबाघभ्र-
मेऽतिव्याप्तेः । न तृतीयः उपेक्षाज्ञानेऽव्याप्तेः । न चतुर्थः निर्विकल्पकेऽव्याप्तेः । न हि निर्विकल्पकजातीय किञ्चिदपि
प्रवृत्तिं जनयति । तज्जातीयस्य क्वचित्प्रवृत्त्यजनकत्वे च तत्र योग्यतायाः कल्पयितुमशक्यत्वात् । निर्विकल्पकस्य
प्रमात्वानङ्गीकारे अपसिद्धान्तात् । न पञ्चमः अन्योन्याश्रयात् । अबाधितत्वं हि बाघरहितत्वं । बाधश्च विरो-
धित्रमा । ततश्च प्रमाज्ञानं विना बाधज्ञानाभावात् बाघज्ञानं विना च बाघरहितानुभवरूपप्रम [ज्ञानाभावात् कथं
नान्योन्याश्रयः ? षष्ठेऽपि यावन्तो घर्मा वर्तन्ते तावत्सर्वधर्मप्रकारकत्वं विवक्षितं ? तन्मध्ये यत्किञ्चिद्धर्मप्रकारकत्वं
वा ? नाद्यः असम्भवात् । न हि 'घटोऽयं ' इति प्रमा घटगतसर्वधर्म प्रकारिका । न द्वितीयः भ्रमेऽतिव्याप्तेः
भ्रमेऽपि इदन्त्ववति शुक्तिकाशकले इदन्त्वप्रकारकत्वात् । इदमंशे भ्रमोऽपि प्रमैवेति चेन्न । प्रमात्वाप्रमात्वयो-
रेकत्रानवस्थानात् । इदमंशे प्रमात्वं रजतांशे भ्रमत्वमिति अंशभेदेना विरोध इति चेन्न । त्वया हि प्रमाया गुण-
जन्यत्वं दोषाजन्यत्वं च, अप्रमायाः दोषजन्यत्वं गुणाजन्यत्वं च अङ्गीकियते । तत्कथं स्यात् ? एकस्यैव तज्जन्य-
त्वातज्जन्यत्वयोर्विरोधात् । तत्राप्यंश भेदाद विरोध इति चेन्न । ज्ञानस्य गुणत्वेनांशाभावात् । ज्ञानस्य निरवयत्वे-
नांशांसम्भवेऽपि इदन्त्वं रजतत्वं चेति प्रकारावेवांशाविति चेन्न । इदन्त्वरजतत्वयोः प्रकारयोर्भेदेऽपि तयोर्गुण-
दोषजन्यत्वाभावेन विरोधाशामकत्वात् । गुणदोषजन्ये च ज्ञाने अंशभेदाभावेन विरोधस्य तदवस्थत्वात् । तस्मात् '
प्रमा चेत् सर्वथापि प्रमैव । अप्रमा चेदपि सर्वथा अप्रमैव । अप्रमाविषयस्यापि इदमंशस्याबाधः स्मृतिविषयघटादे-
वर्तमानतावदुपपद्यते । इदमंशाबाधमात्रेण च तत्र प्रमात्वव्यवहारः । किञ्च अंशभेदेन प्रमात्वाप्रमात्यो रङ्गीकारे
' घटोऽयं ' इति प्रमाया अपि घटत्वांशे अप्रमात्वं स्यात् । तत्र तद्वति तत्प्रकारकत्वाभावात् । न हि 'घटोऽयं '
इति ज्ञाने घटत्वे प्रकाररूपं विशेषणं प्रतीयते । प्रतीतौ वा तस्मिन् विशेषणे विशेषणान्तराप्रतीतेः तत्रैवाप्रमात्वं
स्यात् । तत्रापि विशेषणान्तरप्रतीत्यङ्गीकारे अनवस्था स्यात् । न च अनवस्था न दोष इति शङ्कघम् । उत्तरोत्तर-
प्रकारापरिज्ञांने पूर्वपूर्वप्रकारिज्ञानासम्भवेन मूलक्षतेः । त्वन्मते प्रकारज्ञानत्य प्रकारावच्छिन्न प्रकारिज्ञानहेतुत्वात् ।
तथा च अनवस्थापरिहारार्थं कचित् निष्प्रकारकस्य पदार्थस्य प्रमितिविषयत्वावश्यम्भावेन तत्रैवांशे तस्याः प्रतीतेर-
प्रमात्वावश्यम्भाव इति अंशभेदेन प्रमाप्रमयोरुभयोरपि प्रमाप्रमोभयात्मकत्वापातात् प्रमाप्रमाविभागो न स्यादिति
महानतिप्रसङ्गः ।
 
उपाधिखण्डने
 

 
विशेष्यावृत्त्यप्रकारकत्वं विवक्षितमिति चेन्न । 'देवदत्तस्य गौ: ' ' ईश्वरस्येच्छा' इत्यादौ विशेष्यगवा-
द्यवृत्तेर्देवदत्तादेः प्रकारतानुभवेनाव्याप्तेः । त्वत्पक्षे जातिसमवाययोः सर्वगतत्वेन शुक्त्यादावपि रजतत्वादेर्वृत्त्याऽति.
व्याप्तेश्च । तयोराधाराधेयभाव एव नास्तीति चेन्न । समवायस्यैव इहप्रत्ययहेतुत्वेन तदतिरिक्तस्याघाराधेयसम्बन्ध
स्याभावात् । तदेतदभिप्रेत्योक्तं प्रमाणपद्धतौ टीकाकारैः यथावस्थितमेव ज्ञेयं यद्विषयीकरोति तत्प्रमाणम्
इति । यदि पुनरिदमंशे प्रमात्वं स्यात्तदा एवकारो व्यर्थ: स्यात् । लक्ष्ये 'इदमंशे वर्तमानत्वस्या दोषत्वात् । प्रका-
1 इदमंशज्ञाने इति पाठेन भाव्यमिति भाति.