This page has not been fully proofread.

स्मृतिप्रामाण्य
समर्थनम्
 
(मं. टि.) कारणतानिर्वाहार्थं कल्प्यमानस्य संस्कारस्य यादृशखभावाङ्गीकारे स्मृतिकारणता निरूढा भवेत् तादृश
स्वभावस्यैव धर्मिप्रमाणसिद्धत्वेनानतिप्रसङ्गात् ।
 
न तृतीयः असिद्धेः । स्मृतिर्हि 'तत्र तदा तत् तादृशमासीत् ' इति उल्लिखति । न च तत् तादृशं तत्र
नासीत् । येन स्मृतिरन्यथोल्लेखिनी स्यात् ।
 
एतेन 'स्मृतिः स्वविषयस्य वर्तमानतोल्लेखिनी संस्कारजन्यज्ञानत्वात् प्रत्यभिज्ञावत्' इत्यनुमानेन स्मृते-
रनुभूततत्कालसम्बन्धा दिविशिष्ट स्वविषयस्य वर्तमानतोल्लेखितासाधनात् तादृशावस्थाविशिष्टस्य च अवर्तमानत्वात्
अवर्तमाने वर्तमानतोल्लेखिनी स्मृतिरन्यथोल्लेखिनी' इति निरस्तं । 'आसीत् ' इत्यतीततोल्लेखस्यानुभवसिद्धत्वेन
वर्तमानतोल्लेखितासाघने बाधात् । अतीतकालादिसम्बन्धप्रध्वंसस्य स्मृतिविषयस्य वस्तुतो वर्तमानस्यैव वर्तमानतो-
ल्लेखितासाधने सिद्धसाधनत्वात् ।
 
एतेन ' याचितमन्नं कमनीयमिव स्मृतेः प्रामाण्यं' इति उदयनोपालम्भोऽपि निरस्तः । प्रध्वंसांशे
अनुभवाभावेन तदेशे प्रमात्वस्य तत्प्रमात्वानधीनत्वात् ।
 
}
 
किं च स्मृतिविषये विशेष्यमात्रस्य वर्तमानतोलेखसाधने सिद्धसाधनं । विशिष्टस्य तथात्वसाधने साध्यवै
कल्यं दृष्टान्तस्य । ननु यदि स्मृतिः स्वविषयस्य घटादेवर्तमानतां नाकलयेत् तदा 'गृहे घटः' इति ज्ञानानन्तरं
घटार्थी न प्रवर्तेतेति चेन्न । न हि स्मृति: ' स घट इदानीं वर्तते' इत्युल्लिखति । किं तर्हि ? ' तदा आसीत्
इत्येव । विशेष्यस्य घटादेर्वर्तमानताऽवर्तमानतयोस्तु उदासीनैव । अन्यथा काञ्चीतः काशीं गतः तत्र यथानुभूत-
पुत्रस्मरणेनैव तस्य स्थिति निश्चये 'पुत्रः पुनः कास्ते' इति न सन्दिखेत । कचित्प्रवृतिस्तु 'इदानीमेव घटस्त-
त्रानुभूतः, न चैतन्मध्ये तस्यापहर्ता सम्भावितः' इति सम्भावनारूपेण ज्ञानान्तरेणेत्यनुभवसिद्धं ।
 
नापि चतुर्थः अस्मदीयवृद्धैः स्मृतेः प्रमात्वेन व्यवहारात् । त्वदीयवृद्धव्यवहाराभावस्य त्वयाप्यनादरणी-
यत्वात् । लौकिकैरपि प्रमात्वेन व्यवहाराच्च । तस्मात्स्मृतेः प्रमात्वं सुस्थमिति न लक्षणस्यातिव्याप्तिः ।
 
प्रमालक्षणान्तरनिरासेन स्वोक्तलक्षणसमर्थनम्
 
एतदेव प्रमालक्षण, लक्षणान्तराभावात् । तथा हि, किं संवाद्यनुभवत्वं ? किं वा अविसंवाद्यनुभवत्वं
यद्वा समर्थप्रवृत्तिजनकानुभवत्वं ? अथ वा तद्योग्यानुभवत्वं ? उत अबाधितानुभवत्वं ? आहोस्वित् तद्वति तत्प्रका-
रकानुभवत्वं ? नाद्यः ज्ञानान्सरेण तथो लेख्यमानत्वस्य च संवादित्वे धारावाहिक विभ्रमेऽतिव्याप्तेः । प्रमान्तरेण
 
1 पुनः 'पुत्रः क्कास्ते' इति न सन्दियेत इति मुद्रितपुस्तकस्थः पाठः एव साधुरिति भाति.