उपाधिखण्डनम् /53
This page has not been fully proofread.
३६०
उपाधिखण्डने
(मं. टि.) यथार्थज्ञानं प्रमा । न च स्मृतावतिव्याप्तिः तस्या अपि लक्ष्यत्वात् । न च यथाशब्दार्थानिरुक्तिः
सादृश्यस्य यथाशब्दार्थत्वात् । सादृश्यं च ज्ञानार्थयोः सत्तया । नच अमेऽतिव्याप्तिः । तत्र ज्ञानस्य सत्त्वात् अर्थस्य
च असत्त्वात् ज्ञानार्थयोः सत्तया सादृश्याभावात् । एवं च यथा सादृश्य विशिष्ट एव अर्थो यस्येति बहुव्रीह्याश्र-
यणे यथार्थशब्दस्या भिधेय वल्लिङ्गं लोकसिद्धं सिद्धं ॥ यथाशब्दोऽतिक्रमे वर्तत इति टीकाकारवचनं तु फलित-
प्रदर्शनपरतया व्याख्येयं । ज्ञानार्थयोः सादृश्यकथनेन ज्ञानस्य अर्थानतिक्रमणस्य आवश्यकत्वाच्च । एवमेव च
' धर्माय जिज्ञासा धर्मजिज्ञासा' इति पूर्वमीमांसाभाष्यं, धर्मजिज्ञासयोः यूपदार्वादिवत् उपादानोपादेयलक्षण -
प्रकृतिविकृतिभावाभावात् ' धर्माय' इति चतुर्थीसमासे व्याकरणविरोधमा शङ्कय फलितप्रदर्शनपरतया भट्टेन
व्याख्यातमिति ।
स्मृतिप्रामाण्यसमर्थनम्
इह केचित्, स्मृतेः प्रामाण्ये विप्रतिपद्यन्ते । ते प्रष्टव्याः, किं क्लृप्तप्रमाकरणाभावात् स्मृतेः प्रमात्वान-
भ्युगम: ? किं वा अनुमानाद्यजन्यत्वेऽपि असंनिकृष्टार्थोल्लेखित्वात् ? किं वा असदर्थोल्लेखित्वात् ? यद्वा वृद्धव्यव-
हाराभावात् ?
नायः सुखादिप्रमायां क्लृप्तस्यैव मनसः स्मृतावपि करणत्वात् । बाह्यप्रमायां न क्लृप्तमिति चेन्न 'घटो
मयाऽनुभूतः ? इत्यनुव्यवसायस्य मनोमात्रकरणकत्वेन मनसो बाह्यार्थविषयकप्रमायामपि क्लृप्तत्वात् । साक्षाद्वाह्य-
प्रमितौ न क्लृप्तं मन इति चेत्, मा भूत् इहापि संस्कारद्वारेव मनसा स्मरणोत्पादनात् । एतेन स्मरणकरणे
संस्कारे प्रमाकरणत्वव्यवहाराभावान्न तस्य प्रमापकत्वमिति निरस्तं । मनस एव तत्करणत्वात् ।
न द्वितीयः प्रत्यभिज्ञायां व्यभिचारात् । प्रत्यभिज्ञायां अपि तद्देशकालसम्बन्धस्या सन्निकृष्टस्यैव आकलनात् ।
तत्र संस्काराख्यः सन्त्रिकर्षोऽस्तीति न व्यभिचार इति चेदिहापि तथैवेत्य सिद्धिः ।
,
तृतीयेऽपि किमत्यन्तासदर्थोल्लेखित्वं ? किं वा स्वकाले अविद्यमानार्थोल्लेखित्वं ? यद्वा अन्यथोल्लेखित्वं ?
नाद्यः असिद्धेः । न द्वितीयः अतीतानागतविषयिकायां अव्यभिचरितशकुनादि लिङ्गजन्यानुमितौ व्यभिचारात् । ननु
' अग्निरासीत् ' वृष्टिर्भविष्यति ' इत्याद्यनुमितावपि अग्निप्रध्वंसस्य व्यवहितवृष्टिप्रागभावस्य विषयत्वाङ्गीकारात्
तस्य च तदा वर्तमानत्वान्न व्यभिचार इति चेत्तर्हि तत्कालादिप्रध्वंस एव विषयीक्रियते । स च स्मृतिकाले
वर्तमान एवेति त्वद्धेतोरसिद्धिः । न चाननुभूतस्य तत्कालसम्बन्धप्रध्वंसस्य आकलने स्मृतेरनुभूतमात्र विषयकसंस्का-
रसीमोल्लङ्घनं स्यादिति अन्यस्यापि स्मरणं स्यादिति युक्तं । कालान्तरभाव्यनुभवस्य कालान्तरभाविनीं स्मृति प्रति