This page has not been fully proofread.

अनुगतलक्षणवादे आत्माश्रयत्वपरिहारः
 
(मं. टि.) अनुगतलक्षणमङ्गीगीकुर्वतां प्रमेयत्वे प्रमेयत्वाङ्गीकार इवात्माश्रयस्योत्पत्तिज्ञप्त्यप्रतिबन्धकतया
अदोषत्वात् ।
 
सिद्धान्ते आत्माश्रयत्वादिदोषपरिहार:
 
प्रतिव्यक्ति लक्षण भेदमनी कुर्वतामस्माकं त्वात्माश्रयप्रसक्तेरेवाभावात् । प्रतिव्यक्ति लक्षण मेदाङ्गीकारे लक्ष
णस्याव्याप्तिः स्यादिति चेन्न दोषः । न हि लक्षणस्य सकललक्ष्यानुगतिर्व्याप्तिः । किं तर्हि ? लक्षणवाक्यस्य
विवक्षिततत्तद्वयक्तिपर्यवसानं । सर्वलक्षणेऽप्येवमेवेति सिद्धान्तरहस्यम् । तच्च प्रकृतेऽपि सम्भवत्येव । स्वशब्दस्य
सर्वनामत्वेन विवक्षितव्यक्तिपर्यवसानसम्भवात् । विवक्षितव्यक्त्यपर्यवसाने च खशब्दस्य सर्वनामत्वं व्याहन्येत ।
यथाह पतञ्जलि: ' सर्वेषां नामानि सर्वनामानीत्यन्वर्थसञ्ज्ञा' इति ।
 
सत्वलक्षणान्तरम्
 
अथ वा साक्षात्प्रमाविषयतावच्छेदकधर्माश्रयत्वं सत्वं । ' भ्रमो ममासीत् ' इति प्रमाणज्ञानस्य शुक्ति-
रजतत्वादिकमपि परम्परया विषयो भवतीत्यतिव्याप्तिः स्यात् । तदर्थं साक्षादित्युक्तं । न च साध्यावैशेष्यं शङ्कम् ।
सत्वप्रकारकप्रमाणविषयत्वस्य हेतुत्वात् । प्रमाणविषयतावच्छेदकधर्माश्रयत्वस्य च साध्यत्वात् । अवच्छेद्यावच्छे-
दकयोश्च भिन्नत्वात् ।
 
प्रामाणिकत्वसत्त्वयोर्व्याप्तिसमर्थनम्
 
नन्वथापि कथं प्रामाणिकत्वस्य सत्वेन व्याप्तिः ? शुक्तिरजतस्यासत्यस्यापि 'शक्तिरजतज्ञानं ममासीत् '
इति प्रमाविषयत्वादिति चेन्न । ज्ञानान्तरप्रणाडीमनपेक्ष्य साक्षात्प्रमाविषयत्वस्य हेतुत्वात् । शुक्तिरजतादेश्च जान-
द्वारा प्रमाविषयत्वात् ।
 
प्रमासामान्यलक्षणपूर्वपक्षः
 
अथ केयं प्रमा? यथार्थज्ञानं प्रमेति चेत् यथाशब्दः किं सादृश्यवाची? किं वा अनतिक्रमाद्यन्यतम-
वाची ? नाद्यः घटज्ञानयोः घटत्वादिना सादृश्याभावात् । कथञ्चित्सादृश्यस्य चातिप्रसञ्जकत्वात् । न द्वितीयः
' यथाऽसादृश्ये ' इत्यसादृश्यार्थे अव्ययीभावविधानात् । अव्ययीभावस्य च नपुंसकत्व विधानात् 'उपकुम्भम्' इत्या-
दिवत् 'यथार्थं प्रतीतिः' इत्यादिप्रयोगापातात् । न चैव व्यवहारः । 'यथार्था प्रतीतिः' इत्येव व्यवहारात् । तस्मात्
प्रमात्वं दुर्निरूपमिति ।
 
सिद्धान्ते प्रमालक्षणम्
 
अत्रोच्यते
 
यथार्थज्ञानमित्येव प्रमाया लक्षणस्थितिः ।
स्मृतेरपि च लक्ष्यत्वाद तिव्याप्तिकथा मुधा ॥