उपाधिखण्डनम् /51
This page has not been fully proofread.
३५८
(मं. टि.) वयं तु ब्रूमः ।
उपाधिखण्डने
स्वमतेन सत्त्वनिरुक्तिः
स्वदेशकालनिष्ठश्च स्वनिष्ठेन प्रकारतः ।
विशिष्टस्य निषेधो यस्तदयोगि सदुच्यते ॥
वसमानकालीन व समानाधिकरणस्वनिष्ठधर्मावच्छिन्न निषेधप्रतियोगित्वाभावाश्रयत्वं सत्त्वं ।
भावात् ।
एकदेशिमतेन सत्वलक्षणस्य असति अतिव्याप्तिनिरासः
निषेधप्रतियोगित्वाभावाश्रयत्वमित्यनेनैव असत्यतिव्याप्तिः परिहृता । तस्य निस्वरूपस्योक्तधर्माश्रयत्वा-
असति एकधर्माभावे तद्विरुद्धधर्मशङ्का तत्परिहारश्च
ननु यद्यसतो न निषेधप्रतिगित्वाभावाश्रयत्वं तर्हि निषेधप्रतियोगित्वाश्रयत्वं स्यादिति चेत्, न स्यात् ।
सतामेव हि सत्स्वरूपाणामाश्रयत्वयोग्यानां तदाश्रयत्वाभावे तद्विरुद्ध धर्माश्रयत्वनियमः । असतस्तु निःस्वरूप-
स्याश्रयत्वयोग्यतैव नास्तीति कुतस्तद्विशेषप्रसक्तिः । अन्यथा गवि ब्राह्मणत्वाभावे क्षत्रियत्वाद्यन्यतमः स्यादित्युक्ते
कः परिहारः?
6
ननु क्षत्रियत्वादीनां 'मनुष्यत्वव्यापकत्वात् व्यापकस्य मनुष्यत्वस्य अभावे तद्वयाप्यक्षत्रियत्वादेरप्यभावः ।
एकस्य विशेषस्याभावे तद्विरुद्ध विशेषान्तरस्य भावः ' इति नियमस्तु यत्र विरुद्ध विशेषद्वयव्यापकं सामान्यमस्ति
तत्रैव । गवि तु विशेषद्वयव्यापकं मनुष्यत्वसामान्यमेव नास्तीति परिहार इति चेत् स एव प्रकृतेऽपि परिहारः ।
असतो हि यदि नाम आश्रयत्वसामान्यं स्यात् तदा त्वदुक्तं स्यात् । अपि तु तन्नास्ति निःस्वरूपत्वादित्यन्ये ।
प्रन्थकृन्मतेन असति अतिव्याप्तिनिरास:
2
'वस्तुतस्तु नासतो देशकालौ । किं तु ? तदत्यन्ताभावस्येति ।
।
सत्त्वलक्षणस्यात्माश्रयाव्याप्त्यसत्वदोषशङ्का
नन्वेतल्लक्षणं एतल्लक्षणे अस्ति ? उत न ? आद्ये आत्माश्रयः । द्वितीये लक्षणस्याव्याप्तिः । अलक्ष्यत्वे च
कथमस्यासतो लक्षणत्वं ? इति चेन्न ।
1 मनुष्यत्वव्याप्यत्वात् इति मुद्रितपुस्तकगत एव पाठ: साधु: ।
2 स्वदेशकालनिष्ठपदेन स्वाधिकरणत्वेन
प्रतीयमानदेशकालनिष्ठत्वं विवक्षितं । असतो देशकालयोरभावात् तदत्यन्ताभावीयदशकालयोरेव स्वाधिकरणत्वेन प्रतीयमानत्वात्
स्वदेशकालनिष्ठात्यन्ताभावप्रतियोगित्वमसति वर्तत इत्यसति नातिव्याप्तिरिति भावः ।