This page has not been fully proofread.

1
 
भेदस्य स्वाभाविकत्वसमर्थनम्
 
३५७
 
(मं. टि.) आक्षिपति । स्यादेतदिति ॥ परिहरति ॥ मैवमिति ॥ स्वाभाविकत्वं किं सत्यत्वं किं
वा अनौपाधिकत्वम् ? इति विकल्पं हृदि निधाय आद्यमनूध दूषयति ॥ स्वाभाविकत्वं हीति ॥
 
सत्यत्वस्य दुर्निरूपत्वपूर्वपक्षः
 
अथ किं सत्यत्वं ? अबाध्यत्वमिति चेत् तदेव विविच्यतां । निषेधाप्रतियोगित्वमिति चेन्न । घटादेरपि
निषेधप्रतियोगित्वेन लक्षणासम्भवात् । त्रैकालिकनिषेधाप्रतियोगित्वमिति चेन्न । अश्वत्वस्य गवि त्रैका लिक निषे-
घप्रतियोगित्वेन तत्राव्याप्तेः । न हि गौः कदाचिदव्यश्वत्वाश्रयः । प्रतिपन्नोपाधाविति विशिष्यत इति चेन्न ।
तथाप्यनित्यस्य घटादेरसत्यत्वप्रसङ्गः । त्रैकालिकनिषेधाप्रतियोगित्वं हि त्रैकालिक निषेधप्रतियोगित्वाभावः । घटा-
देर नित्यस्य स्वसमयात् प्रागूर्ध्वं च निषेधप्रतियोगित्वेन त्रैकालिको योऽयं निषेधप्रतियोगित्वाभावः तद्रहित-
त्वात् । अथ त्रैकालिकत्वं न तन्निषेध प्रतियोगित्वाभावविशेषणं । किं तर्हि ? निषेध विशेषणं । एवं च त्रिका -
लावस्थायी यो निषेधः तत्प्रतियोगित्वाभावः सत्यत्वमिति लक्षणवाक्यार्थः । स च घटादेरपि सम्भवति । घटा-
देर्निषेधस्य त्रिकालावस्थायित्वाभावादिति चेत् एवमपि घटस्यैव प्रतिपन्नोपाधौ पटात्मना त्रिकालावस्था यिनिषेध-
प्रतियोगित्वं वर्तत इत्यव्याप्तिस्तदवस्था । अथ यदात्मना यस्त्रिकालावस्थायिनिषेधाप्रतियोगी स तदात्मना सन्निति
लक्षणवाक्यार्थः । तथा च घटस्य घटात्मना त्रिकालनिषेत्राप्रतियोगित्वात् तदात्मना सत्वं पटात्मना तु
तत्प्रतियोगित्वात् तदात्मना असत्वं । अत एव सर्व स्वात्मना सत् तदन्यात्मना असदित्यस्माकं मतमिति चेत्
तर्हि असतोऽपि सत्वापातः । तस्यापि येन केनचिदाकारेण त्रैकालिकनिषेधाप्रतियोगित्वात् । न ह्यसत् त्रैका-
लिकनिषेधप्रतियोगित्वाकारेण त्रैकालिकनिषेधप्रतियोगि । तेनाकारेण असदपि सदस्तु को दोष: ? इति चेत्
अस्ति महान् दोषः । सदसतोरुभयोरपि आकार भेदेन सत्वासत्वाभ्युपगमे सदसद्विवेकानुपपत्तेः । तस्मात्सत्वं
दुर्निरूपमिति प्रामाणिकत्वेन तत्साधनमसङ्गत मिति ।
 
केषाश्चिन्मतेन प्रतिबन्धा सत्वस्य दुर्निरूपत्वनिराकरणम्
 
S
 
अत्र केचित् ब्रह्मणि यादृशं परेषां सत्त्वं तादृशमेवास्माकं भविष्यतीति प्रतिबन्द्या परिहरन्ति ।
 
"
 
अन्येषां मतेन सत्त्वनिरुक्तिः
 
अपरे तु, त्रैकालिक निषेधप्रतियोगित्व तद विनाभूतेतरधर्मावच्छिन्नतया त्रैकालिकनिषेधाप्रतियोगित्वं सत्वं ।
न चैवमसत्यतिव्याप्तिः । असतस्त्रैका लिकनिषेधप्रतियोगित्वतदविनाभूतधर्मान्तरैस्त्रैकालिक निषेधा प्रतियोगित्वेऽपि
तदितरधर्मावच्छिन्नतया तत्प्रतियोगित्वात् । न चासम्भवः । घटादेस्त्रैकालिक निषेधप्रतियोगित्वतद विना भूतेतरघट-
वादिधर्मावच्छेदेन त्रैकालिक निषेधाप्रतियोगित्वादित्याहुः ।