This page has not been fully proofread.

३५६
 
उपाधिखण्डने
 
(मं. टि.) न्घमात्रमर्थ: । किं नाम ? तस्यातीतत्वमपि ' इति । तच्च स्मरणे प्रतीयमानं तद्देश कालसम्बन्धस्यातीतत्वं
यद्यपि न पूर्वमनुभूतं, पूर्वं तद्देशकाल सम्बन्धस्य वर्तमानत्वेनातीतत्वाभावात् तदानीमेव तच्छब्द प्रयोगप्रसङ्गाच्च तथापि
तद्देशकालसम्बन्धस्वरूपमात्रस्य अनुभूतत्वात् प्रत्यभिज्ञायास्तस्मिन्नंशे संस्कार : संनिकर्षो भवत्येवेत्ति न व्यर्थं मात्र-
ग्रहणं ।
 
अननुभूतस्य तत्तातीतत्वस्य । स्मृतिविषयत्वसमर्थनम्
 
ननु तीननुभूतस्यापि तद्देशकाल सम्बन्धातीतत्वस्य स्मरणाङ्गीकारेऽतिप्रसङ्गः स्यात् । न स्यात् । पूर्व-
मनुभूतस्य तद्देशकालसम्बन्धस्य यत् अतीतत्वं तस्यैवाननुभूतस्यापि स्मरणं । अन्यस्य सर्वस्यानुभूतस्यैव स्मरण.
मिति नियमात् । अननुभूतस्याप्यतीतत्वस्य स्मरणदर्शनात् । न ह्यतिप्रसङ्गभिया दर्शनापलापो युक्तः । किं तर्हि ?
दृष्टमङ्गीकृत्य ततोऽन्यत्रातिप्रसङ्गं परिहर्तुं व्यवस्था कल्प्या । अन्यथा तत्रैवातिप्रसङ्गात् ।
 
तत्ताती तत्वेनासंनिकृष्टस्यापि मनसस्तज्ज्ञानजनकत्वम्
 
>
 
नम्वथापि अतीतत्वस्याननुभूतत्वात् तत्र संस्कारलक्षणसंनिकर्षाभावात् संनिकर्षान्तरस्य च अङ्गीकार्यत्वात्
स्मृतौ संस्कारमात्रप्रत्यासत्तिजन्यत्वं जास्तीति लक्षणस्यासम्भवः स्यादिति चेन्न । तद्देशकालसम्बन्धेन सह संस्का-
राख्य प्रत्यासक्तियुक्तेन मनसा करणेन तद्देशकालसम्बन्धातीतत्वस्यासंनिकृष्टस्याप्याकलनात् । स्मृतिरपि यदि सम्ब-
न्थमेवाकलयेत् तदा प्रत्यभिज्ञानवदनुभव: स्यात् । प्रत्यभिज्ञायां तु इदन्ताया इन्द्रियार्थसंनिकर्षः प्रामाणिक
इत्युक्तं । उद्बुद्ध एवं संस्कारः प्रत्यासति: न संस्कारमात्र । तेन संस्कारे सत्यपि स्मरणानुदयात् नास्य प्रत्या-
सत्तित्वमिति चोद्यं निरस्तं । तस्मात् सुष्ठुक्तं प्रतियोगिनः स्मरणमपेक्षते इति ।
 
॥ न चैवमिति ॥ 'विमतं शरीरं हिताहितप्राप्तिपरिहारेच्छापूर्वकव्यापाररहितं न भवति शरीरत्वात् मच्छ-
रीरवत्' इत्यनुमानेन हेतुसाधनादिति भावः । नन्वेवं तह्येनेनैव सात्मकत्वं साध्यतां किमनया प्रणाड्या ? इति
चेन्न । शरीरत्वमात्रस्य सात्मकत्वेन मृतशरीरे व्यभिचारात् । हिताहितप्राप्तिपरिहारेच्छापूर्वक व्यापार विशिष्टस्य च
शरीरत्वस्यासिद्धत्वात् साक्षात्साधनायोगात् । सावयत्वादिनैव सकर्तृकत्वादिसाधनसम्भवेन कार्यत्वादेर्वैयर्थ्य -
सङ्गाच्च । अनुभूयत एव सर्वैरिति कारिकास्थावधारणार्थमाह ॥ न चैवमिति ॥ ततश्च प्रत्यक्षाप्रत्यक्षधर्मत्वेन
अप्रत्यक्षत्वसाधनं बाघितमिति भावः । अनुभवे विप्रतिपद्यमानं प्रत्याह ॥ न हि चेष्टेति ॥ भेदकज्ञानस्य भेद-
ज्ञानसामग्रीव्याप्तत्वात् विरुद्धधर्मरूपभेदकज्ञाने तद्व्यापक भेदज्ञानसामग्रयवश्यम्भावात् सामग्रीसद्भावेऽपि कार्या
नङ्गीकारे व्याघातादिति हिशब्दार्थः ।
 
भेदस्य स्वाभाविकत्वसमर्थनम्
 
,
 
(टी.) स्यादेतत् तथापि तस्य भेदस्य स्वाभाविकत्वं कुतः ? इति चेत्, मैवं स्वाभाविकत्वं हि
यदा सत्यत्वं स्यात् तदा प्रमाणसिद्धत्वादेव तत् सिद्धयति । प्रामाण्यं च प्रत्यक्षस्य अन्यत्रोपपादितं ।
सत्योपाधिकृतत्वं तु पूर्वमेव निरस्तमिति न पुनः प्रयतितव्यं ।
 
1 nind इति वि.
 
पनि भनि