This page has not been fully proofread.

मन्दारमञ्जय
 
एकदेशिमतानुसारेण स्मरणलक्षणम्
 
(मं. टि.) नैष दोषः । यावत्स्व विषयविषयक विशिष्टानुभवजन्यज्ञानत्वस्य स्मृतित्वात् । न चैवं प्रत्यभिज्ञा-
नानुभवेऽतिव्याप्तिः । प्रत्यभिज्ञायाः पूर्वाननुभूततत्ता विषयिकाया यावत्स्वविषयविषयक विशिष्टानुभवजन्यत्वाभावादिति
के चित्परिहरन्ति ।
 
सम्भावितस्मृतिलक्षणानामतिव्याप्तिदोषः
 
वयं तु ब्रूमः ।
 
एकदेश्यभिमतस्मृतिलक्षणे असम्भवदोषः
 
' तत्रै सन्धित्सोरपरं च्यवते' इतिन्यायेनातिव्याप्तिं समादधतोऽसम्भवस्योत्थानात् । स्मृतेरप्यननुभूत-
तत्ताविषयकत्वात् । ननु च तत्ता नाम तद्देशकालसम्बन्ध: । सोऽपि पूर्वमनुभूत एवेति चेन्न । तथात्वे तदा-
नीमेव 'तत् ' इति प्रतीतिप्रसङ्गात् । ननु विषयभेदाभावेऽपि संस्कारजन्यत्वाजन्यत्वाभ्यां तत्तोल्लेखानुल्लेखा विति
चेन्न । प्रतीतिवैलक्षण्यस्य विषयवैलक्षण्याधीनत्वात् । कारणभेदमात्रेण प्रतीतिवैलक्षण्याङ्गीकारे प्रत्यक्षज्ञाने 'वह्निः'
इति प्रतीयेत । अनुमितौ तु ' व्याघ्रः' इति प्रतीयेत । सामग्रीभेदस्य तत्र सत्वात् । तस्मात् एकदेशिनां परि-
हारो न युक्तः ।
 
स्वमतेन स्मृतिलक्षणम्
 
३५५
 
संस्कारमात्ररूपा या मनसो व्यापृतिस्तमा ।
मन्यन्ते स्मरणं जन्यं ज्ञानं मध्वमतानुगाः ॥
 
संस्कारमात्ररूपावान्तरव्यापारजन्यज्ञानत्वं स्मृतित्वं । अवान्तरव्यापारजन्यज्ञानत्वमित्युक्ते अनुभवे अति-
व्याप्तिः । अनुभवस्यापि इन्द्रियार्थसं निकर्षलक्षणावान्तरख्यापारजन्यत्वात् । तत्परिहारार्थं व्यापार संस्कारात्मक-
त्वेन विशेषयितुं संस्कारग्रहणं । ताबत्युक्ते प्रत्यभिज्ञानेऽतिव्याप्तिः । तस्यापि तत्तांशे संस्काराख्यप्रत्यासत्ति-
जन्यत्वात् । तत्परिहाराय अवधारणार्थकमात्रग्रहणं । एवं च नातिव्याप्तिः । प्रत्यभिज्ञाया इदमंशे इन्द्रियसम्प्रयोग-
लक्षणव्यापारेणापि जन्यत्वात् ।
 
तत्ताया अनुभवविषयत्वसमर्थनम्
 
ननु तत्ताया अननुभूतत्वात् तत्र संस्कारस्य अवान्तरव्यापारत्वाभावात् मात्रग्रहणं व्यर्थं । न व्यर्थं । तत्ताया
अपि कथञ्चिदनुभूतत्वात् । अतीतो देशकालसम्बन्धो हि तत्ता । 'तत्र तदा तत् आसीत् ' इति स्मरणोत्पत्तेः ।
तत्र ' आसीत् ' इति भूतार्थवाचिलङ । दिप्रत्ययप्रयोगात् तद्देशकालसम्बन्धस्यातीतत्वप्रतीतेः । भूतत्वमतीतत्वं प्रध्वं-
सप्रतियोगित्वमिति च पर्यायः । तथा चोक्तं तत्वोद्योतटीकायां टीकाकारैः 'न हि स इत्यस्य तद्देशकालसम्ब-