This page has not been fully proofread.

उपाधिखण्डने
 
(टी.)' भेदो हि नैक एव अनेकधर्मः' इत्युपपादितमन्यत्र । किन्तु ? एकस्मिन् धर्मिणि परप्रति-
योगिक एव । तस्य च प्रत्यक्षता धर्मिणः प्रत्यक्षतां प्रतियोगिनश्च स्मरणमपेक्षते । तत्र धर्मी स्वात्म
तावत् प्रत्यक्षसिद्धः । प्रतियोगिस्मृतिहेतुश्चानुभवोऽनुमानाद्भवति । तथा हि, परशरीरं तावत्प्रत्य
क्षसिद्धं । तस्य चेष्टादिलिङ्गेन स्वशरीरवत् सात्मत्वमनुमातुं शक्यते । चेष्टा नाम हिताहितप्राप्तिपरिहारे-
च्छापूर्वको व्यापारः । न परिस्पन्दमात्रं येन व्यभिचार: स्यात् । न चैवं सन्दिग्धासिद्धता । हिताहित-
प्राप्तिपरिहारानुगुणतायाः स्वात्मदृष्टान्तेनैवावगमात् । अतः तस्मात् परशरीराधिष्ठातुः स्वात्मनोऽन्य-
त्वं प्रत्यक्ष भवितुमर्हति । न चैवं सम्भवनामात्रं । सर्वैः अपि तु अनुभूयत एव । न हि चेष्टा-
विशेषानुमितप्रयत्नविशेषत्रतः परात्मनः स्मृतौ सत्यां तथाविधप्रयत्नविरहिणं स्वात्मानं प्रत्यक्षत एवानु.
भवस्तस्मात्खात्मनोऽन्यत्वं नानुभवति इति युज्यते ।
 
(मं. टि.) सिद्धान्तिनैवमुक्ते अन्यस्तत्परिजिहीर्षतीत्याह ॥ तत्रेदमाहेति ॥ बुद्धिपरिकल्पितप्रतिवाद्यभिप्रायेण
प्रथमपुरुषप्रयोगः । अनूदितं दूषयति परः ॥ तदयुक्तमिति ॥ स्वात्मैवेत्येवकारस्य व्यावर्त्यमाह ॥ न त्विति ॥ भेद-
स्तावदुभयधर्मः । उभयप्रतीतिसापेक्षत्वात् । तत्र किं सामान्यादिवत् प्रत्येकं परिसमाप्तः ? किंवा संयोगादिवत्
व्यासज्यवृत्तिः ? नाद्यः एकव्यक्त्युपलम्भेऽपि गोत्वोपलम्भवत् घर्मिप्रतियोग्यन्यतरप्रतीत्यैव मेदप्रतीतिप्रसङ्गात् ।
द्वितीयं दूषयति ॥ न चेति ।
 
ननु चेष्टालिङ्गेन इति मूलग्रन्थे आनुमानिकत्वं प्रतियोगिनोऽभिहितं । किम नेनोक्तं भवति ? किं भेदस्य
प्रामाणिकत्वमात्रं ? किं वा प्रत्यक्षसिद्धत्वं ? नाद्यः उपक्रमाननुकूलत्वात् । न द्वितीयः प्रत्यक्षानुपपत्तेरुक्तत्वा-
दित्याशङ्कयाह ॥ भेदो हीति ॥ 'एक एवानेकधर्मो न' इत्युपपादितमिति सम्बन्धः ॥ प्रतियोगिनश्च स्मर-
णमपेक्षत इति ॥ प्रतियोगिस्मरणमात्रेण सादृश्याभावादीनां सप्रतियोगिकानां प्रत्यक्षतादर्शनात् 'स्तम्भः पिशाचो
न भवति ' इति अप्रत्यक्षप्रतियोगिक भेदस्य प्रत्यक्षतादर्शनाच्चेति भावः ।
 
सम्भावितस्मृतिलक्षणानामतिव्याप्तिदोषः
 
ननु किमिदं स्मरणत्वं नाम ? किं ज्ञानजन्यज्ञानत्वं? अनित्यज्ञानजन्यज्ञानत्वं वा ? अनित्यविशिष्टज्ञान-
जन्यज्ञानत्वं वा स्वसमानविषयका नित्यविशिष्टज्ञानजन्यज्ञानत्वं वा ? स्वसमानाधिकरणस्वसमान विषयक विशिष्ट-
ज्ञानजन्यज्ञानत्वं वा ? नाद्यः अनुभवस्यापि नित्येश्वरज्ञानजन्यत्वेनातिव्याप्तेः । न द्वितीयः विशिष्टानुभवस्यापि विशे-
षणविषयक निर्विकल्पकज्ञानुजन्यन्वेनातिव्याप्तेः । न तृतीयः लिनयनुभवस्यापि लिङ्गविषयक विशिष्टज्ञानजन्यत्वेन
अतिव्याप्तेः । न चतुर्थः श्रोतृगतसमान विषयकवक्तृगत विशिष्टज्ञानजन्ये श्रोतृगते शब्दानुभवेऽतिव्याप्तेः । न पञ्चमः
देवदत्तसमवेतपूर्वानुभवजन्ये पूर्वानुभूत विषयके देवदत्तसमवेतप्रत्यभिज्ञानेऽतिव्यांप्तेः ।