उपाधिखण्डनम् /46
This page has not been fully proofread.
मन्दारमञ्जर्यां भावत्वनिरुक्तिः
३५३
(मं. टि.) योगित्वमित्युक्ते अभावेऽतिव्याप्तिः । तत्परिहारार्थमभावत्वावच्छिन्नेत्यादिना अन्यत्वं विशेषितं । अभाव-
स्याप्यभावान्तरनिष्ठाधारत्वप्रतियोगि काधेयताश्रयान्यत्वप्रतियोगित्वेऽपि न सा आधारता अभावत्वेनावच्छिद्यते ।
अभावत्वस्य प्रतियोगिन्यपि सत्वात् । प्रतियोगिनिष्ठस्य चान्यत्वाधिकरणतावच्छेदकत्वायोगात् ।
अभावत्वनिरुक्तिः
अभावत्वं च
स्वप्रतियोगिकानुयोगिनिर्विशेषतादात्म्यवत्प्रतियोग्यनुयोगित्वं । स्वं प्रतियोगि यस्यासौ
स्वप्रतियोगिकः । स चासावनुयोगी च । अनुयोगी नाम प्रतियोगिप्रतिसम्बन्धी । तेन सह निर्विशेषतादा-
त्म्यमस्यास्तीति स्वप्रतियोगि कानुयो गिनिर्विशेषतादात्म्यवान् । स चासौ प्रतियोगी च । तं प्रत्यनुयोगी तस्य भावस्त.
त्वमिति विग्रहः । प्रतियोग्यनुयोगित्वमित्युक्ते सादृश्यादावतिव्याप्तिः । तस्य स्वप्रतियोगिनौ गोगवयौ प्रत्यनुयो-
गित्वात् । तत्परिहाराय स्खप्रतियोगिकानुयोगितादात्म्यवदित्युक्तं । एवं च नातव्याप्तिः । सादृश्यप्रतियोगिकेन
केनचिदपि गोगवययोः तादात्म्याभावेन सादृश्यप्रतियोगि कानुयोगितादात्म्यवत्प्रतियोगिनौ प्रत्यनुयोगित्वाभावात् ।
न चासम्भवः । घट।भावस्य स्वनतियोगिन घटाभावाभावरूपेणानुयोगिना तादात्म्यवन्तं घटाख्यं प्रतियोगिनं
मत्यनुयोगित्वात् । अभावाभावस्य भावत्वात् । नञ्द्रयेन प्रकृताभिधानात् । तावत्युक्तेऽप्यतिव्याप्तिः । "सादृश्य-
प्रतियोगिकेन भेदेन गोगवययोस्तादात्म्यवत्वात् । तदर्थं निर्विशेषेत्युक्तं । एवं च नातिव्याप्तिः भेदस्य स्वधर्मिणा
सविशेष भेदाङ्गीकारात् । घटादेर्घटादित्वेन भावत्वेऽप्यभावनिषेधात्मनाइमाबत्वाच ।
अभावाभावस्य भावरूपत्वानङ्गीकारे अनवस्थादोषः
ये पुनरभावाभावो न भावः किं तर्हि ? अभावव्यवहारादभाव एवेत्याहुः । तेषामभावपरम्परया अन-
वस्था दुर्वारा । तस्माद्युक्तं भावाभावव्युत्पादन भेदेन इति । प्रपञ्चस्य प्रयोजनमाह ॥ तत्रैकैकस्येति ॥ तत्र चतुर्णा
मध्य इत्यर्थः ।
जीवभेदस्य प्रत्यक्षत्वसमर्थनम्
(टी.) भेदसाधकाभेदबाधकव्युत्पादनायोत्तरं वाक्यं । तत्रेदमाह, यदुक्तं ' प्रत्यक्षादिसिद्धो
जीवेश्वरयोजवानां च भेदः, तत एव तदभेदः प्रत्यक्षादिविरुद्धः इति तदयुक्तं, सर्वस्य हि स्वात्मैव
प्रत्यक्षो न तु जीवान्तरमीश्वरो वा । न च प्रत्यक्षॉप्रत्यक्षधर्मः प्रत्यक्षो वायुवनस्पतिसंयोगवत् ।
तत्कथं भेदः प्रत्यक्षः? इत्याशङ्कपरिहरञ्जीवभेदस्य प्रत्यक्षतां तावत्समर्थयते ।
चेष्टालिङ्गेन सात्मत्वे परदेहस्य साधिते ॥ ११ ॥
अन्यत्त्वं स्वात्मनस्तस्मात्सर्वैरेवानुभूयते ।