This page has not been fully proofread.

भावस्वस्य दुर्निरूपत्वपूर्वपक्षः
 
५३१
 
(मं. टि.) प्रथमे अभावविषयिकाऽपि प्रथमा प्रतीतिः कथमस्तित्वालम्बिनी न स्यात् ? अभावेऽपि स्वरूपसत्तायाः
भाव इव प्रथममेव प्रत्येतव्यत्वात् । द्वितीये अन्योन्याश्रयः । तस्मान्न पञ्चमः ।
 
नापि षष्ठ: घटस्यापि 'घटाभावो नास्ति' इति प्रत्ययविषयत्वेन असम्भवात् । प्रथमप्रतीतौ 'नास्ति'
इत्यप्रतीयमानत्वं विवक्षितम् । न चैवमसम्भवः । भावस्य प्रथमं 'घटोऽस्ति ' इत्यस्तित्वप्रकारेणैव प्रतीतेः ।
नाप्यतिव्याप्तिः । अभावस्य प्रथममेव 'नास्ति' इत्येव नास्तित्वाकारेणैव प्रतीतेरिति चेन्न । त्वन्मते घटा-
देरपि प्रथममेव 'अन्यात्मना नास्ति' इति प्रतीते: । अन्यथा स्वेतरसर्वात्मना प्रतीतिप्रसङ्गात् । भेदस्य
स्वरूपत्वेन तथाप्रतीत्यवश्यम्भावाच्च । तस्माद्भावत्वं दुर्निरूपम् ।
 
अभावत्वस्य दुर्निरूपत्वपूर्वपक्षः
 
6
 
कि चेदमभावत्वं नाम ? सप्रतियोगिकत्वं वा ? भावादन्यत्वं वा ? भावत्वानधिकरणत्वं वा ? भावविरो-
धित्वं वा ? ' अस्ति' इति प्रत्ययाविषयत्वं वा ? 'नास्ति' इति प्रत्ययविषयत्वं वा ? नाद्यः सादृश्यादावति -
व्याप्तेः । न द्वितीय: भाव एवातिव्याप्तेः । मावस्यापि यत्किञ्चिद्भावादन्यत्वात् । न तृतीयः भावत्वानधिकरण-
त्वस्य अभावरूपत्वेनात्माश्रयत्वात् । न चतुर्थः शीतस्वशस्याप्युष्णस्पर्श विरोधित्वेनातिव्याप्तेः ।
 
ननु च स्वाभाविकभाव विरोधित्वं विवक्षितं । न चैवं शीतस्पर्श विरोधिन्युष्णस्पर्शे अतिव्याप्तिः । शीत-
स्पर्शस्योष्णस्पर्शाभावव्याप्तत्वेनैवोपाधिना उष्णस्पर्श विरोधित्वेन स्वाभाविक विरोधाभावात् । भावाभावयोस्तु खाभा-
विक एव विरोध: उपाधेरस्फुरणात् । न च भावज्ञानस्याभावज्ञानाधीनत्वेन अन्योन्याश्रयः शङ्कयः । पदार्थाश्रय-
त्वस्य भावत्वात् । न चाभावेऽतिव्याप्तिः । अभावे हि भवन् पदार्थो भावो वा अभावो वा । नाद्यः भावा-
श्रयत्वे भावत्वापतः । न द्वितीयः अभावे अभावाङ्गीकारे आत्माश्रयत्वादिति चेन्न ।
 
विरोधस्यानिरूपणात् । स किं सहानवस्थानलक्षण: ? किं वा वध्यघातकमावलक्षणः । नाद्यः तस्याभाव-
रूपत्वेनात्माश्रयत्वात् । द्वितीयेऽपि तदभावव्याप्तत्वं वा तदभावरूपत्वं वा । उभयथाऽप्यन्योन्याश्रयः । अथ
प्रागभावप्रध्वंसयोर्भावेन सह कालतो विरोध: । अत्यन्तभावस्य तु देशत इत्यादिप्रतिनियत एव विरोध इति
चेन्न । अनुगतंविरोधशब्दार्थस्याभावे लक्षणाननुगतेः ।
 

 
यच्चोक्तं ' पदार्थाश्रयत्वं भावत्वं' इति तत्र वक्तव्यं, अभावस्यापि किञ्चिल्लक्षणमस्ति ? न वा ? इति
न चेद्भावाद्वयावृत्तिर्न स्यात् । अस्ति चेत् कथं पदार्थाश्रयत्वाभावः ? लक्षणस्यैव पदार्थत्वात् । ननु लक्षणम-
भावाना तिमपि तटस्थं सत् इतरेभ्यो व्यावृत्ति अनुगतं व्यवहारं च करोतीति चेत् तथापि तटस्थलक्षणलक्ष्य-
त्वरूपधर्माश्रयत्वेन पदार्थाश्रयत्वावश्यम्भवात् । न चात्माश्रयः व्यक्ति भेदाद्भावे भावान्तरवदभावेऽपि अभावा-
न्तरस्यानुभवसिद्धत्वाच्च । तस्मान्न चतुर्थः ।
 
-