This page has not been fully proofread.

उपाधिखण्डने
 
(मं. टि. ) नन्वेवं तर्छुपलक्षणं न स्यात्, चशब्देनोक्तत्वादिति चेन्न । चशब्दस्य निपातत्वात् निपातानां च
द्योतकत्वेन अभिधायकत्वाभावात् । द्योतितत्वेऽपि अनभिहितत्वमात्रेणोपलक्षणपदप्रयोगोपपत्तेः । निपातानां चाभि-
घायकत्वे ' समुच्चयो वर्तत इत्यभिप्रायेण 'चो वर्तते ' इति प्रयोग: स्यात् । ' चशब्दस्यार्थान्तरमाह ॥ प्रत्यक्षा-
दीति ॥ अत्राप्युपलक्षणपदप्रयोगः पूर्ववन्निर्वाह्यः । यद्वा चशब्दयोरुक्ता साधारणदूषण समुच्चयार्थत्वं परस्परसमुच्च-
यार्थत्वं वा आश्रित्य उभयत्राऽपि उपलक्षणपदप्रयोगो मुख्य एव द्रष्टव्यः ।
 
अञ्जसा इत्येतत्पद्कृत्यम्
 
अञ्जसा दुष्टः इत्युक्तं । तत्र अञ्जसा इत्यस्यार्थमाह ॥ परपक्षेत्यादिना ॥ साधकबाधकभावा-
भावव्युत्पादनभेदेनेति ॥
 
३५०
 
भावत्वस्य दुर्निरूपत्वपूर्वपक्ष:
 
ननु किमिदं भावत्वं नाम ? निष्प्रतियोगिकत्वं ? उत अभावादन्यत्वं यद्वा अभावत्वानधिकरणत्वं ?
अथ वा अभावविरोधित्वं ? उत ' अस्ति ' इति प्रत्ययविषयत्वं ? आहोखित् 'नास्ति' इति प्रत्ययाविषयत्वं ?
नाद्यः सादृश्यादावव्याप्तेः । तस्यापि प्रतियोगिनिरूप्यत्वात् । न द्वितीयः अभावस्यापि यत्किञ्चिदभावादन्य-
त्वेनातिव्याप्तेः । न तृतीयः अभावत्व एवातिव्याप्तेः । तस्य तदनधिकरणत्वात् । न चतुर्थः नित्यत्वाभाव-
स्याप्यनित्यत्वाभावविरोधित्वेनातिव्याप्तेः ।
 
6
 
न पञ्चमः अभावस्यापि 'घटाभावोऽस्ति' इति प्रतीतिविषयत्वेनातिव्याप्तेः । अथ मतं, प्रथमप्रतीतौ
' अस्ति' इति प्रतीयमानत्वं विवक्षितं । एवं च नातिव्याप्तिः । 'घटो नास्ति' इति ज्ञात्वैव 'घटाभावोऽस्ति '
इति ज्ञानादिति चेत् केयं 'अस्ति' इतिप्रतीति: ? किं 'अस्ति ' इति व्यवहारोत्पादिका ? किं वा
अस्तिपदार्थविषयिका ? किं वा अस्तित्वप्रकारिका ? नाद्यः अव्याप्तेः । घटोऽस्ति' इति ज्ञानस्यापि
' अस्ति' इति व्यवहारजनकत्वनियमाभावेन त्वदुक्तस्यास्तीतिप्रत्यय विषयत्वस्याभावात् । उत्पन्नस्यापि ज्ञानस्य
व्यवजिहीर्षाभावेन व्यवहाराजनकत्वात् । न द्वितीयः अभावे अतिव्याप्तेः । अभावस्य अस्तिपदार्थत्वाभावे कथं
पश्चात् 'घटाभावोऽस्ति ' इति प्रतीतिः ?
 
20
 
तृतीये किमिदमस्तित्वं ? सत्वं वा ? भावत्वं वा ? आद्ये अनुगतसत्तामनङ्गीकुर्वता त्वया स्वरूपसत्वमेव
वक्तव्यं तर्दिक स्वरूपमतीतावेव प्रतीयते ? उत न ? न चेत् कथं घटविषयिका प्रथमप्रतीतिरस्तित्वावलम्चिनी?
 
1 समुचितौ वर्तते इति मुद्रितपुस्तकस्थपाठ एव साधुरिति भाति.
पाठः प्रथमचकारस्य अर्थान्तराकथनेन द्वितीय चकारस्यैव अर्थकथनेन साधुरिति भाति.
 
2 चशब्दान्तरार्थमाह इति मुद्रितपुस्तकस्थ: