This page has not been fully proofread.

अद्वैतवादिभिः कृतस्य योग्ययोगिविशेषसमर्थनस्य दुष्टत्वोपपादनम्
 
३४९
 
(मं. टि. ) योगिनो विशेषसिध्यर्थ चात्मा भेदत्यागे घट्टकुट्यां प्रभातवृत्तान्तायितं स्यादिति भावः । अथ तत्परिहाराय
योगिवढ्योगिनोऽप्यने कशरीरित्वमङ्गीक्रिवते तथा योगिनोऽनुसन्धानलक्षणविशेषोऽस्तीत्यभिमानः तदा उपाधि-
संश्लेषविश्लेषौ नानुसन्धानाननुसन्धान नियामकौ योगिषु संश्लेषव्यतिरे केऽप्यनुसन्धानदर्शनेन व्यतिरे कव्यभिचारात्
विश्लेषसद्भावेऽप्यनुसन्धानदर्शनेन जन्वयव्यभिचाराच्चेत्याह ॥ अनुसन्धाने चेति ॥
 
अद्वैतवादद्वयसाधारणदोषकथनम्
 
(टी.) एवमसत्योपाधिनिमित्ताध्यस्तभेदमङ्गीकुर्वतां सत्योपाधिकृतसत्यभेदमभ्युपगच्छतां चाद्वै-
तवादिनां पक्षं पृथनिराकृत्य साधारणदोषेणापि दूषयति
 
आत्मस्वभावभेदस्य विदोषत्वेन चाखिलः ॥ १० ॥
प्रत्यक्षादिविरोधाच्च दुष्टः पक्षोऽयमञ्जसा ।
 
' जीवात्मपरमात्मनोः जीवानां च यो भेदः स स्वभावत एव, न मिथ्यासत्योपाधिनिमित्तः'
इति पक्षस्य । विदोषत्वेनेत्युपलक्षणं । प्रामाणिकत्वेनेत्यपि ज्ञातव्यं । अयमखिलः पक्ष इत्युक्तोभय-
विधाद्वैत सिद्धान्तः प्रत्यक्षादिविरोधाचेत्युषलक्षणं प्रमाणाभावाचे त्यपि द्रष्टव्यं । परपक्षप्रतिक्षेपेण
स्वपक्षसाधनेन च सिद्धान्तस्य प्रतिष्ठा तदभावे दुष्टता । परपक्षप्रतिक्षेपो द्विविध: बाघकसाधकभावा-
भावव्युत्पादनभेदात् । स्वपक्षसाधनमपि साधकबाधकभावाभावव्युत्पादनभेदेन द्विविधं । तत्रैकैक-
स्याप्यभावो दुष्टत्वहेतुः किमु सर्वस्येति । तदिदमुक्तं अञ्जसा इति । तत्र आत्मस्वभावभेदबाधकस्य
तद्भेदसाधकस्य चाभावोऽन्यत्र व्युत्पादितः ।
 
(मं. टि.) मूलग्रन्थे दुष्ट: पक्षोऽयम् इत्यत्र महाप्रकृतस्य पक्षद्वयस्य दुष्टत्वं विवक्ष्यते । तथा चाखिल-
पदप्रयोगो युक्त इत्यभिप्रेत्य वृत्तानुवादपूर्वकं वर्तिष्यमाणमवतारयति ॥ एवमिति ॥ आत्मेत्यत्र भेदं प्रति
आत्मनो न धर्मित्वमात्र नापि प्रतियोगित्वमात्रं । परेणापि आत्मनो जडात्, जडस्य चात्मनो भेदाङ्गीकारात् ।

कि तर्हि ? उभयमित्याह ॥ जीवेति ॥ स्वभावभेदस्य इत्यत्र पञ्चमीतत्पुरुषो विवक्षित इत्याह ॥ स्वभावत
इति ॥ स्वभावत इत्यस्यार्थमाह ॥ न मिथ्योपाधिनिमित्त इति ॥ भेदशब्देन तत्पक्षो लक्ष्यत इत्याह ॥ इति
पक्षस्येति ॥ चशब्दार्थमाह ॥ विदोषत्वेनेत्युपलक्षणमिति ॥ ज्ञातव्यमिति ॥ चशब्दसूचिततया ज्ञात-
व्यमित्यर्थः ।
 
1 ॥ न मिथ्यासत्योपाधिनिमित्तो वेति ॥ इति मुद्रितपुस्तकगतः पाठः साधुरिति भाति । स्वभावपदेन पक्षद्वय
स्याप्यपाकरणात् । अस्मिन्नपि पाठे वाशब्दः प्रामादिक इति भाति.