उपाधिखण्डनम् /41
This page has not been fully proofread.
उपाधिखण्डने
V
॥
॥ स्वभोगसाधनानेकशरीरसद्भाव इत्यथ: ।
(मं. टि ) शङ्कते ॥ अथेति ॥ अनेकशरीरसद्भाव इति
॥ भोगार्थत्वादिति ॥ भोगप्रयोजनकत्वादित्यर्थः । भोगस्य स्वीयत्वं दुर्निरूपमित्युक्तमित्याशङ्कय तन्निरूपयितुं
भोग विशिनष्टि ॥ तत्कर्मफलेति ॥ स्वकर्मक्षयकारित्वं स्वीयत्वमित्यर्थः । कर्मक्षयाय भोगार्थत्वात् इत्यत्र
भोगस्य अपुरुषार्थत्वशङ्कानिरासाय कर्मक्षयः फलत्वेनाभिहितः । इदानीं त्वविशेषशङ्कानिरासार्थमभिधीयत इति
न पौनरुक्त ॥ भोगस्य चेति ॥ ' सुखत्वादिकं ज्ञातैकसम्मात्रनिष्ठं न भवति धर्मत्वात् घटत्वादिवत्' इत्यनु-
मानेनोत्पन्नस्यापि सुखस्याननुसन्धानोपपत्तेरिति भावः । अयं च विशेष: अयोगिनो नास्तीत्याह ॥ न चैव
मिति ॥ एवं योगिवत् शरीरबाहुल्यस्य यज्ञदत्तादिशरीराणां देवदत्त कर्मफलभोगार्थता नेति सम्बन्धः ।
३४८
यदुक्तमनुमानं तत्र ज्ञातैकसन्मात्रनिष्ठत्वं प्रसिद्धं न वा ? न चेत् तदभावोऽप्यप्रसिद्ध इत्यप्रसिद्ध विशे-
षणत्वं । प्रसिद्धं चेत् यत्र प्रसिद्धं तन्निष्ठधर्म एव व्यभिचारः । अस्मद्रीत्या आत्मत्वादौ व्यभिचारश्च ।
आत्मनः स्वकर्मकसंविद्रूपत्वात् । सुखादेर्शातैकसत्वानङ्गीकारे संशयादिगोचरत्वापत्तिरिति तर्कबाघश्च । सुखा-
दिज्ञानरूपस्य साक्षिणो नित्यत्वेन तज्ज्ञानस्यावश्यकत्वाच्चेत्यादयो दोषा ऊह्याः । तस्माद्भोगानुसन्धानं दुष्परिहरं ।
अपि च अस्त्वनुसन्धानं विनापि भोगः तथापि न विशेष: सूपपाद इत्याह ॥ तदेतदिति ॥ कारिकायां
भेदभिन्नताशब्दौ भिन्नस्वामिकत्वा पर पर्याय नियमवाचकौ । कर्मोपाधिस्वरूपभेदपरत्वे प्रकृतानुपयोगादित्याह
॥ इदं देवदत्तस्येति ॥ कोटियाङ्गीकारे खलु अन्योन्याश्रयः । प्रकृते च अनेक कोटिसद्भावान्नान्योन्याश्रय इति
शङ्कते ॥ कर्मेति ॥ एवं तीनवस्थाऽस्त्विति परिहरति । तथापीति ॥ प्रवाहस्यानादित्वात् बीजाङ्कुरादाविव
नानवस्था दोषायेति शङ्कते ॥ अनादित्वादिति ॥ दृष्टः कर्मोपाधिनियमोऽनन्यथा सिद्धश्चेत्खलु नियम्यनियामक
भावापन्नां कर्मोपाधिपरम्परां कल्पयेत् । स एव न दृश्यत इति गूढाभिसन्धिः परिहरति ॥ नासिद्धेति ॥
अभिप्रायमजानानः पर आह ॥ कर्माणीति ॥ विभिन्ना इति ॥ कर्माणीत्यनेन विभिन्नानीति लिङ्गव्यत्ययेन
सम्बन्धः । नियमस्य दृष्टत्वमात्रमङ्गीकरोति ॥ सत्यमिति ॥ कल्पकत्वं तु नाङ्गीक्रियते अन्यथा सिद्धत्वादिति
गूढाभिसन्धि विवृणोति ॥ तद्भेदस्येति ॥ अयंभावः, 'यद्धि यस्य कारणं न तत्तस्य कार्य ' इति यथा नियमः
तथा यो धर्मो यन्निरूप्यकारणतावच्छेदकः नासौ तन्निरूप्यकार्यतावच्छेदक: यथा तन्तुत्वं' इत्यपि नियमः ।
तत्र पटनिरूप्यकारणतावच्छेदकस्य तन्तुत्वस्य न पटप्रतियोगिक कार्यतावच्छेदकत्वं । न हि कश्चिदपि तन्तुः
पटजन्य: । येन तन्तुत्वं पटाख्यकारणनिरूप्यकार्यतावच्छेदकं स्यात् । प्रकृते च उपाधिनियम निरूप्यकारण-
तावच्छेदकस्य कर्म नियमत्वस्य तन्निरूप्यकार्यतावच्छेदकत्वमस्त्येव । कस्यचित्कर्म नियमस्योपाधिनियमकारण-
त्वेऽपि कस्यचित् कर्मनियमस्योपाधिनियमकार्यत्वात् । बीजाकुरादौ गत्यन्तराभावात्तथा अङ्गीकियने । न चैवं
प्रकृते । अन्यथाप्युपपन्नत्वादिति । उपसंहरति ॥ तदेवमिति ॥ योगिनोऽनुसन्धानलक्षणविशेषमनङ्गीकृत्य
अनेक शरीरित्वलक्षण विशेषाङ्गीकारे अयोगिनस्तदभावसिद्धयर्थं आत्माभेदस्त्याज्य इत्याह ॥ अभेदो वेति ॥
1 तत्र धर्म एव, इति पाठेन भाव्यमिति.
1
ww