This page has not been fully proofread.

३४७
 
सुखादिरूपभोगस्यानुसन्धानानङ्गीकारे योग्ययोगिनोर विशेषापादनसमर्थनम्
(मं. टि) नामयोगिनोऽप्यनेकशरीरसद्भावेनेष्टापत्तेः । तृतीयस्तु स्यादेव अयोगिनोऽनेकशरीरत्वेऽपि तेषां स्वभोग-
साघनत्वाभावात् इत्या क्षिपति ॥ कथमयोगिन इति ॥ भोगस्य स्वीयत्वं यदि नाम खानुसन्धेयत्वं तदा न
योगिनोऽपि तत् । स्वशरीरजन्यत्वं चेत् अयोगिनोप्यस्तीत्यभिप्रायेण परिहरतीत्याह ॥ अत उक्तमिति ॥
 
आत्मैक्यवादिभिर्योग्ययोगिनोर्विशेषसमर्थनम्
 
(टी.) अथ मन्येत, एकस्यैव योगिनोऽनेकशरीरगतसुखानुसन्धानाभावेऽपि 'योगिन एवानेक
शरीरत्वम् इति विशेषो युज्यते । तेषां शरीराणां तत्कर्मफलभोगार्थत्वात् । भोगस्य च अनुसन्धानेन
विनाप्युपपत्तेः । न चैवं सकलदेहगतचेतनानां स्वभावतोऽभेदेऽपि " देहबाहुल्यस्य अस्ति देवदत्तकर्मफल-
भोगार्थतेति ।
 
तन्मतनिराकरणम्
 
तदेतदसत्, सर्वदेहगतात्मनां देवदत्ताभेदेन सर्वकर्मणामपि देवदत्तसम्बन्धित्वापच्या सर्व-
देहानां देवदत्त कर्मफलभोगार्थताऽभावानुपपत्तेः । अभेदेऽपि देवदत्तोपाधिकृतमेव कर्म देवदत्त -
सम्बन्धि नान्यदिति नियम इति चेन्न । अभेदादेव सर्वोपाधीनामपि देवदत्तोपाधित्वापातात् । देव-
दत्तकर्मनिर्मित एव देवदत्तोपाधिर्नेतरोऽभेदेपीति चेत् तत्राह
 
सिद्धौ हि कर्मभेदस्य स्यादुपाधि विभिन्नता ॥ ९ ॥
तत्सिद्धौ चैव तत्सिद्धिरित्यन्योन्यव्यपाश्रयः ।
 
इदं देवदत्तस्यैव इदं यज्ञदत्तस्यैव इति कर्मभेदसिद्धौ तत्तत्कृतत्वेन अयं देवदत्तोपाधिः अयं यज्ञ-
दत्तोपाधिः इति उपाधि विभिन्नता स्यात् स्वरूपाभेदेन निमित्तान्तराभावात् । उपाधिभेदसिद्धावेव
कर्मभेदसिद्धिः उक्तादेव हेतोः । ततश्च अन्योन्याश्रयात् नैकमपि सिद्ध्यति । कर्मोपाधिव्यक्तिभेदा-
नान्योन्याश्रय इति चेत् । तथाप्यनवस्था स्यात् । अनादित्वान्नेति चेन्न । असिद्ध विषयत्वेन मूल-
क्षतेः । कर्माण्युपाधयश्च विभिन्ना एव दृश्यन्त इति चेत् सत्यं, तद्भेदस्य स्वाभाविकात्मभेदेनैवोपपत्तेः ।
तदेवं योगिनोऽनुसन्धानाभावे विशेषाभावप्रसङ्गादनुसन्धानमङ्गीकार्य, अभेदो वा त्याज्यः । अनु-
सन्धाने च सति उपाधि विश्लेषोऽकिञ्चित्कर इति ' स्वरूपैक्याङ्गीकारे सुखदुःखादिभोगो भेदेन न
दृश्येत' इत्युक्तं युक्तं ।
 
1 मं. टि. योगिन एवानेकशरीरसद्भाव इति-
2 मं. टि. शरीरबाहुल्यस्य.