This page has not been fully proofread.

श्री
 

 
अथ श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितेषु
 

 
दशप्रकरणेषु
 

 
तृतीयं उपाधि खण्डनम्
 

 
श्रीजयतीर्थभिक्षुविरचितया टीकया विभूषितम्
 

 
टीका
 

 
रमाया रमणं नत्वा गुणमाणिक्यमण्डनम् ।

तत्वप्रकाशिका व्याख्यां करिष्यामो यथामति ॥
 

 

 

 
अथ श्रीब्रह्मण्यतीर्थपूज्यपाद शिष्यश्रीव्यासतीर्थविरचिता उपाधिखण्डनटीकायाः

मन्दारमञ्जरी टिप्पणी प्रारभ्यते
 

 
हरिः ॐ
 

 
लक्ष्मीकरतलाम्भोजलालनीयपदाम्बुजम् ।

प्रणमामि हयग्रीवं देवताचक्रवर्तिनम् ॥ १ ॥

श्रीमदानन्दतीर्थार्चरणाम्बुरुहद्वयम् ।

शिवेन्द्रादिशिरोभूषामादरादभिवादये ॥ २ ॥

जयतीर्थमुनिं नत्वा भक्त्याऽस्माकं गुरुरूनपि ।

तत्वप्रकाशिकाव्याख्यां यथामति विवृण्महे ॥ ३ ॥
 

 
प्रारिप्सितमैग्नन्था विघ्नपरिसमाप्त्यादिप्रयोजन कम कमविगीत शिष्टाचारानुमितश्रुतिप्रमाणकं परदेवताप्रणामलक्षणं

मङ्गलमाचरन् ग्रन्थकर्ता जयतीर्थाचार्यश्चिकीर्षितं निर्दिशति ॥ रमाया इति ॥ रमणमिति 'कृतल्युटो बहुलम्
 
'
 
9
 

 
1 कमलारमणं नत्वा पूर्णबोधेष्टदैवतम् । तत्वप्रकाशिका<error>व्य ख्यां </error><fix>व्याख्यां </fix>करिष्यामो यथामति ॥ १ ॥
 

 
स्पष्टार्थो य इह ग्रन्थः स न व्याक्रियते मया । ग्रन्थगौरवभौभीरुत्वान्न चोद्ग्रन्थं बहूच्यते ॥ २ ॥
 

 
मङ्गलाचरणपूर्वकं चिकीर्षितं निर्दिशति ॥ रमाया रमणमिति ॥ नन्द्यादित्वात् कर्तरि ल्युट्' इति मुद्रितः पाठः ।

अयं पाठो न साधुरिति भाति । तत्वप्रकाशिकाव्याख्याया जयतीर्थ कर्तृकायाः स्वकर्तृकत्वाभावेन प्रथम श्लोकोत्तरार्धस्यानुपपन्नत्वात् ।