Proofing

Sorry, you aren't authorized to use this feature.

This page has not been fully proofread.

श्री
 

 
अथ श्रीमदानन्दतीर्थ भगवत्पादाचार्यविरचितेषु
 

 
दशप्रकरणेषु
 

 
तृतीयं उपाधि खण्डनम्
 

 
श्रीजयतीर्थभिक्षुविरचितया टीकया विभूषितम्
 

 
टीका
 

 
रमाया रमणं नत्वा गुणमाणिक्यमण्डनम् ।

तत्वप्रकाशिका व्याख्यां करिष्यामो यथामति ॥
 

 

 

 
अथ श्रीब्रह्मण्यतीर्थपूज्यपाद शिष्यश्रीव्यासतीर्थविरचिता उपाधिखण्डनटीकायाः

मन्दारमञ्जरी टिप्पणी प्रारभ्यते
 

 
हरिः ॐ
 

 
लक्ष्मीकरतलाम्भोजलालनीयपदाम्बुजम् ।

प्रणमामि हयग्रीवं देवताचक्रवर्तिनम् ॥ १ ॥

श्रीमदानन्दतीर्थार्चरणाम्बुरुहद्वयम् ।

शिवेन्द्रादिशिरोभूषामादरादभिवादये ॥ २ ॥

जयतीर्थमुनिं नत्वा भक्त्याऽस्माकं गुरुरूनपि ।

तत्वप्रकाशिकाव्याख्यां यथामति विवृण्महे ॥ ३ ॥
 

 
प्रारिप्सितमैग्नन्था विघ्नपरिसमाप्त्यादिप्रयोजन कम कमविगीत शिष्टाचारानुमितश्रुतिप्रमाणकं परदेवताप्रणामलक्षणं

मङ्गलमाचरन् ग्रन्थकर्ता जयतीर्थाचार्यश्चिकीर्षितं निर्दिशति ॥ रमाया इति ॥ रमणमिति 'कृतल्युटो बहुलम्
 
'
 
9
 

 
1 कमलारमणं नत्वा पूर्णबोधेष्टदैवतम् । तत्वप्रकाशिका<error>व्य ख्यां </error><fix>व्याख्यां </fix>करिष्यामो यथामति ॥ १ ॥
 

 
स्पष्टार्थो य इह ग्रन्थः स न व्याक्रियते मया । ग्रन्थगौरवभौभीरुत्वान्न चोद्ग्रन्थं बहूच्यते ॥ २ ॥
 

 
मङ्गलाचरणपूर्वकं चिकीर्षितं निर्दिशति ॥ रमाया रमणमिति ॥ नन्द्यादित्वात् कर्तरि ल्युट्' इति मुद्रितः पाठः ।

अयं पाठो न साधुरिति भाति । तत्वप्रकाशिकाव्याख्याया जयतीर्थ कर्तृकायाः स्वकर्तृकत्वाभावेन प्रथम श्लोकोत्तरार्धस्यानुपपन्नत्वात् ।