This page has not been fully proofread.

३४६
 
उपाधिखण्डने
 
(टी.) विशेषो न स्यात् । अस्ति चासौ । तेन ज्ञायते 'न शरीरबाहुल्यमा त्रायेच्छा योगिनः किं तु ?
तद्गतभोगाद्यनुसन्धानार्था' इति । कथमयोगिनोऽपि शरीरबाहुल्यं सिद्धम् ? इत्यत उक्तं ॥ तत्पक्ष
इति ॥ सर्वशरीरगतचेतनानां स्वभावतोऽभेदस्य परेणाङ्गीकृतत्वादिति ।
 

 
(मं. टि.) ' प्रयोजनान्तराभावात् ' इत्यस्य असिद्धिमाशङ्कते ॥ अथेति ॥ कल्पनं चासङ्घटितमित्याह
॥ एकस्येति ॥ जीवस्याणुत्वेन नानाशरीरगतसुखाद्यनुसन्धातृत्वानुपपत्तेरिति भावः । देहबाहुल्यं च न खरूपेण
पुरुषार्थः । ततः कथं तस्य प्रयोजनत्वम् ? इत्यत आह ॥ न चेति ॥ स्वरूपेणापुरुषार्थत्वेऽपि पुरुषार्थान्तरसाधन-
त्वमस्तीत्याह ॥ भोगार्थत्वादिति ॥ ननु भोगो नाम किं सुखादिकमेव ? किं वा तदनुसन्धानं? नाद्यः अननु-
संहितस्यापि सुखस्य पुरुषार्थत्वे परसुखस्यापि पुरुषार्थत्वप्रसङ्गात् । द्वितीये सिद्धं नः समीहितमित्यत आह
॥ कर्मक्षयायेति ॥ अननुसंहितस्यापि सुखस्य संसारनिदानकर्मनाशकत्वेन पुरुषार्थत्वमिति भावः । ननु तथापि
सुखादेर्ज्ञातै कसत्वादुत्पन्नं सुखं ज्ञाये तैवेति तत्राह ॥ भोगश्चेति ॥ अनुसन्धातुरंशिनः सर्वदेहव्यापित्वाभावात्
अनुसन्धात्रभावबाधितत्वेन ' यत् सुखं तत् ज्ञातैकसत्' इति व्याप्तिर्नाङ्गीक्रियत इति भावः । तर्हि भोगश्च न
स्वात् सानुसन्धातृकस्यैव शरीरस्य भोगायतनत्वादित्यत आह ॥ तत्र तत्र तद्गतांशैरिति ॥ अनुसन्धाने
अंश्यपेक्षा सुखदुःखोत्पत्तिलक्षणभोगस्तु अंशसन्निधानमात्रेण भवतीति भावः । अंशैरिति करणे तृतीया । करणत्वं
च शरीरस्य भोगायतनताया उपपादकत्वादौपचारिक +
 
यत् सुखं तत् अनुसन्धीयत एव' इति व्याप्तिसमर्थनम
 
नानाशरीरे ध्वंशानामनङ्गीकारे निर्जीवशरीर इव भोगोऽपि न स्यात् । अंशानामङ्गीकारे अंश्यप्यङ्गी-
कर्तव्यः । न चाणुत्वविरोध: अणोरपि शक्त्या पादादिव्यापित्ववत् नाना देहव्यापित्वस्याप्युपपत्तेः । तेन
विना अंशानामवस्थानायोगात् । तयोरेकत्वात् । योगे वा पादादाविव अंशद्वारा अंशी चानुसन्दधीत । तथा
च ' यत्सुखमुत्पन्नमविनष्टं च तदनुसन्धीयत एव' इति व्याप्तेर्बाधकाभावात् अन्यकर्मफलस्य चान्येनानुसन्धातुम-
शक्यत्वात् तस्यैवानुसन्धानं सुस्थं ।
 
सुखादिरूपभोगस्यानुसन्धानानङ्गीकारे योग्ययोगिनोर विशेषापादनसमर्थनम्
 
अपि चानुसन्धानाभावेऽपि कर्मक्षयार्थत्वेन भोगः सार्थकोऽस्तु । अनुसन्धान राहित्याविशेषात् 'योगि-
नोऽयोगिनो विशेषो न स्यात्' इत्यभिप्रायेण सिद्धान्तयति ॥ तत्राहेति ॥ मूलग्रन्थे अन्यथा इत्यत्र अपि-
शब्दाध्याहारेणाह ॥ योगित्वेन विनापीति ॥ ननु ' विशेषो न स्यात्' इत्यत्र विशेषशब्देन अनेकदेह जन्य-
दुःखानुसन्धानाननुसन्धानरूपो विशेषो विवक्षितः ? किं वा एकशरीरयोगित्वानेकशरीरयो गित्वलक्षण: ? अथवा
स्वभोगसाधनानेकशरीरभावाभावलक्षणः? नाद्यः योगिनोऽप्यनुसन्धानाभावेनेष्टापत्तेः । नापि द्वितीयः ऐकात्म्यवादि-