This page has not been fully proofread.

योगिनोनानादेहगतभोगानुसन्धानस्यासिद्धिशङ्का
 
तत्परिहारश्च
 
न चेद्रोगानुसन्धानं तदिच्छा योगिनः कुतः ।
 
(टी.) इच्छापूर्व खलु योगिनोऽनेकशरीरोपादानं पुराणेषु पठ्यते । तत्र यदि योगिनो ऽनेकशरीर-
गतसुखाद्यनुसन्धानं न स्यात् तदा तस्य तदिच्छैत्र न स्यात् । शरीरोपादानस्य प्रयोजनान्तराभावात् ।
अप्रयोजनस्य प्रेक्षावता निवर्तिष्यमाणत्वात् । अतो ज्ञायते अस्त्यनुसन्धानमिति ।
 
३४५
 
योगिनो नानाशरीरग्रहणे अनुसन्धानातिरिक्त प्रयोजनाभावस्य असिद्धिशङ्का तत्परिहारश्च
 
न च योगिनोऽविवेकिनः । येनानुसन्धानासाधनमपि देहबाहुल्यं तदर्थमिच्छन्तीति कल्प-
यामः ।
 
(म. टि.) आक्षिपति ॥ स्यादेतदिति ॥ परिहरति । अत आहेति ॥ योगिनः प्रवृत्तिः किमिच्छा-
पूर्विका ? उत न ? आय: मूलप्रन्थेन दूषितः । द्वितीयं दूषयति ॥ इच्छापूर्वकं खल्विति ॥ इच्छापूर्वक-
मिति पक्षे किं समयोजनं ? किं वा निष्प्रयोजनं ? आद्यं दूषयति ॥ तत्रेति ॥ तथा सतीत्यर्थः । ननु ' सप्रयो-
जनत्वेऽपि प्रयोजनमात्रमपेक्षते न तु सुखाद्यनुसन्धानमिति नियमः' इति तत्राह ॥ शरीरेति ॥ द्वितीय दूषयति
॥ अप्रयोजनस्य चेति ॥
 
ननु ' प्रयोजनान्तराभावात् ' इत्यसिद्धो हेतुः देहबहुत्वस्य वैभवार्थत्वा दित्यत आह ॥ न चेति ॥ तदर्थ-
मिति ॥ तच्छब्देन योगिन इत्यत्र विशेषणत्वेन प्रकृतो योगः तपोजन्यापूर्वरूपो विवक्ष्यते । तस्यार्थः प्रयोजनं ।
देहबहुत्वविशेषणं चैतत् । वैभवार्थमिति शेषः । यद्वा बुद्धिस्थत्वात् तच्छब्देन वैभवं परामृश्यते । वैभवाये-
त्यर्थः । अतिप्रयाससाध्ययोगजन्यापूर्वस्य प्रेक्षावतां क्षुद्रफले व्ययीकरणानुपपत्तेरिति भावः ।
 
प्रकारान्तरेण प्रयोजनान्तराभावस्यासिद्धिशङ्का तत्परिहारच
 
(टी.) अथोच्येत, न योगिनः अनेकशरीरोपादित्सया अनेकशरीरगतसुखाद्यनुसन्धान मेकस्य
कल्पयितुं शक्यते देहबाहुल्यार्थमेवेच्छोपपत्तेः । न च तस्य वैयर्थ्यादप्रयोजकत्वं । कर्मक्षयाय भोगार्थ-
त्वात् । भोगच विनाप्यनुसन्धानेन तत्र तत्र तद्गतांशैः शक्यते कर्तुमिति । तत्राह
 
अनुसन्धानरहितदेहबाहुल्यमन्यथा ॥ ८ ॥
 
सिद्धमेव हि तत्पक्षे विशेषो योगिनः कुतः ।
 
न योगिनः अनुसन्धानेन विना केवल देहबाहुल्यार्थमेवेच्छेति कल्पयितुं शक्यते । तथा सति
अनुसन्धानरहित देहबाहुल्यस्य योगित्वेन विनापि विद्यमानत्वाद्योगिनोऽनेकशरीराधिष्ठातृत्वमिति
 
न च तस्य वैयथ्य दिप्रयोजनत्वं इति पाठेन भाव्यमिति भाति । 'ततः कथं तस्य प्रयोजनत्वं ?" इति मन्दारमञ्जरीसंवा-
दोsस्मिन्नेव पाठे घटते.