उपाधिखण्डनम् /37
This page has not been fully proofread.
३४४
उपाधिखण्डने
(मं. टि.) उच्यते, अविद्यारूपोपाधिभेदाभावस्यानुसन्धाने प्रयोजकत्वे मायोपाधिकस्येश्वरस्य च ऐन्द्रियक-
सुखाद्यनुसन्धानं स्यात् ।
अज्ञानरूपोपाधिभेदाभावस्यानुसन्धानप्रयोजकत्वशङ्का तन्निरासश्च
अज्ञानरूपोपाधिभेदाभावोऽनुसन्धाने प्रयोजक इति चेन्न । मायायां लोकेऽज्ञानपदाप्रयोगात् । न हि
मायाविनमज्ञानिनमाचक्षते । न च मायावी कस्यचिदर्थस्याज्ञानादैन्द्रजालिकं दर्शयति । किंतु ? ओषधि-
विशेषज्ञानादेव । किं च मुक्तस्याज्ञानरूपोपांधिभेदाभावात् संसारिसम्बन्धिदुःखाधनुसन्धानप्रसङ्गः ।
अज्ञानरूपोपाध्यैक्यस्यानुसन्धान प्रयोजकत्वाशङ्का तन्निरासश्च
अज्ञानरूपोपाध्यैक्यमनुसन्धाने प्रयोजकमिति चेत् तर्हि मुक्तस्य स्वरूपसुखानुभवो न स्यात् । 'चैत-
न्यैक्येप्यन्तःकरणभेदात् अविद्याभेदाद्वा अननुसन्धानं' इत्यत्र मां प्रति दृष्टान्ताभावेन शरीरभेदवदन्तःकरणा-
दिभेदस्यापि चैतन्यैक्ये सति अनुसन्धानाप्रतिबन्धकत्वात् ।
भोगायतनाभेदस्यानुसन्धानप्रयोजकत्वशङ्का तन्निरासश्च
एतेनैतदपि निरस्तं 'यथा खलु खकर्णपुटपरिच्छिन्ननभोभागसमवायिशब्दो पलम्भेऽपि भागान्तरवर्ति-
शब्दानुपलम्भः तथा सुखदुःखप्रयत्नाद्युपलम्भानुपलम्भव्यवस्थितिसिद्धेस्तत्कर्णशष्कुलीमण्डलावच्छिन्नस्य नभस-
स्तत्र तत्र श्रोत्रभावक्त् तत्तद्भोगायतनावच्छेदलब्धजीवभावस्य तत्र तत्र भोगोपपत्तौ किमनेकात्मकल्पनादु-
सनेन' इति ।
1
अव्याकृता काशस्यास्माभिः श्रोत्रत्वानङ्गीकारात् । आकाशस्य स्वतः सांशत्वोपपादनाच । योगिनो
भोगायतन भेदेऽपि ' भोगाव्यवस्थाया उक्तत्वाच्च । किं च यथा अनेकात्मवादे तत्तत्कर्णपुटस्य तत्तदीयत्वनियम:
न तथैकात्मवादे तत्तद्भोगायतनस्य नियमोऽस्ति । तथा च स्खीयकर्णपुटद्वय परिच्छिन्ननभोभागवृत्तिशब्दोपलम्भ-
वदेकात्मवादे सर्वेषां भोगायतनानां स्वीयत्वात् सर्वभोगायतनपरिच्छिन्नात्म सम्बन्धिसुखदुःखाद्यनुभव एकैकस्य
स्यादेवेत्यलं ।
*
योगिनो नानादेहगतभोगानुसन्धानस्यासिद्धिशङ्का तन्निरासश्च
(टी.) स्यादेतत् । परबुद्धेरप्रत्यक्षत्वात् योगिनो नानादेहगतभोगानुसन्धानं कुतः सिद्धम् ?
इत्यत आह
भोगानुसम्घानव्यवस्थाया उक्तत्वाच, इति पाठेन भाव्यमिति भाति.