उपाधिखण्डनम् /36
This page has not been fully proofread.
संश्लिष्टोपाधेरनुसन्धानप्रयोजकत्वनिरासः
३४३
6
(मं. टि.) तर्क: सोपाधिकः । यत्रानुसन्धानं तत्रोपाधिसंश्लेष: ' इति साध्यव्यापकत्वेऽपि साध्याभावाविना-
भूताभावप्रतियोगिनः स्वरूपैक्यस्य प्रयोजकत्वे सम्भवति साध्याभावाविनाभूताभावरहितस्योपाधेरेवापयोजकत्वं ।
यथोक्तं,
एकसाध्याविमाभावे मिथ: सम्बन्धशून्ययोः ।
साध्याभावाविनाभावी स उपाधिर्यदत्ययः ॥
इति भावः । उभयोत्पत्तिमारभ्य सम्बन्धी विवक्षित इति चेन्न । देवतावचनादिना मध्ये हस्ताद्युत्पत्तिदर्शनेन व्यभि
चारात् । अनाश्यसम्बन्धी विवक्षित इति चेन्न । सति हस्ते पादच्छेददर्शनादिति भावः ।
स्वरूपैक्ये सति संश्लेषः प्रयोजक इति द्वितीयं दूषयति ॥ न द्वितीय इति ॥ दोषान्तरं सूचयतीति ॥
यद्यपि उपाधिसंश्लेषविशिष्टस्वरूपैक्यस्य नानुसन्धानप्रयोजकत्वं । योगिषु व्यतिरेक व्यभिचारादित्ययमर्थो मूलग्रन्थे
मुखत एवोच्यते तथापि दोषान्तरत्वाकारेण सूच्यत्वं । विशेषणप्रक्षेपे प्रमाणाभावादिति खेनोक्तस्याचार्येण
सूचितत्वादिति भावः । अथ वा व्यभिचारस्थलस्य कथनेऽपि व्यभिचारः सूच्यत इति तात्पर्य
'एकावय-
व्यारम्भकत्वं संश्लेषः' इति पक्षोऽप्यनेनैव योगिषु व्यतिरेक व्यभिचारकथनेन निरस्तो वेदितव्यः ।
अन्तःकरणरूपोपाधिमेदाभावस्य अनुसन्धान प्रयोजकत्वशङ्का तन्निरासश्च
ननु अन्तःकरणरूपोपाधिभेदाभावोऽनुसन्धाने प्रयोजकः । एवं च चैत्रस्य हस्तपादादिभेदेऽपि
अन्तःकरण भेदाभावात् योगिनोऽपि शरीर मेदेऽपि अन्त:करणभेदाभावादनुसन्धानोपपत्तिः । देवदत्तयज्ञदत्त-
योस्तु अन्तःकरण भेदादननुसन्धानं । मातृगर्भस्थयोरपि अन्तःकरणभेदादननुसन्धानोपपत्तौ 'स्वरूपैक्ये सति'
इति न विशेषणीयं । तेन गौरवं च नास्तीति चेत्
नैष दोषः । सुप्तौ अन्तःकरणविलयमंङ्गी कुर्वतस्तव मते प्रत्यहमन्तः करणभेदसद्भावेन 'पूर्वद्युर्मया
दुःखमनुभूतं ' इत्यनुसन्धानाभावप्रसङ्गात् । सुप्तमुक्तयोरन्तः करणरूपोपाधिभेदाभावेन तयोः जाग्रत्संसारस-
म्बन्धिदुःखाद्यनुभवप्रसङ्गाच्च । एकस्यैवाणुभूतस्यान्तःकरणस्य विप्रकृष्टदेशस्थितानेक योगिशरीरसम्बन्धासम्भवेन
योगिनोऽपि अन्तःकरणभेदसद्भावाच्च । अन्यथा देवदत्तयज्ञदत्तयोरप्यन्तः करणैक्यप्रसङ्गात् ।
अविद्यारूपोपाधिभेदाभावस्यानुसन्धानप्रयोजकत्वशङ्का तन्निरासश्च
ननु तर्ह्यविद्यारूपोपाधिभेदाभावः अनुसन्धाने प्रयोजकः । एवं च न दोषः, सुषुप्तावन्तःकरणविल-
यवत् अविद्या विलयाभावात् अविद्याया अन्तःकरणवदणुत्वाभावेन योगिन्यविद्या भेदाभावात् देवदत्तयज्ञदत्तादौ
च अनेकजीववादे अविद्याभेदात् एकजीववादे तु व्यवस्थाया एवाभावादिति चेत्