उपाधिखण्डनम् /35
This page has not been fully proofread.
उपाधिखण्डने
(मं. टि.) अनुकूलतर्काभावादप्रयोजकं चानुमानमित्याह ॥ कथं चेति ॥ अन्यनिमित्तस्येति ॥ उपाध्यै-
क्यावच्छिन्न स्वरूपैक्यनिमित्तकस्येत्यर्थः । नैमित्तकस्यानुसन्धानस्याभावो हि निमित्ताभाव कल्पयति । प्रकृते तु
न स्वरूपैक्यमात्रं निमित्तं । किं तर्हि ? विशिष्टमित्युक्तं । विशिष्टाभावश्चोपाध्यैक्याभावमात्रेणोपपद्यत इति
स्वरूपैक्याभावानङ्गीकारे बाधकं नेति भावः ।
३४२
सिद्धान्तयतीत्या ॥ अत आहेति ॥ न प्रयोजक इति ॥ अन्वयव्यतिरेकाभ्यां प्रयोज्यप्रयोजक-
भावस्य निर्णेतव्यत्वात् उपाध्यैक्यस्य व्यतिरेक व्यभिचारान्नाप्रयोजकमनुमान । नापि तर्क: सोपाधिकः । साध्य -
व्यापकत्वाभावादिति भावः ।
संश्लिष्टोपाधेरनुसन्धान प्रयोजकत्वशङ्का तन्निरासश्च
(टी.) अथापि स्यात् । संश्लिष्टोपाधित्वमनुसन्धाने प्रयोजकं । तदुर्भावात् प्रकृते नानुसन्धान
मिति चेत् किमुपाधिसंश्लेषमात्रं प्रयोजकम् ? उत स्वरूपैक्ये सति ? नाद्यः मातृसुखादेर्गर्भस्थेनानु-
भवप्रसङ्गात् ।
स्वरूपैक्य विशिष्टसंश्लिष्टोपाधेरनुसन्धानप्रयोजकत्वशानिरास:
न द्वितीय: स्वरूपैक्यमात्रस्य प्रयोजकत्वे सम्भवति विशेषणप्रक्षेपे प्रमाणाभावात् । दोषान्तरं
च सूचयति
नानादेहगभोगानुसन्धानं योगिनो यथा ॥ ७ ॥
स्वरूपैक्यसद्भावात् विश्लिष्टनानादेहगतसुखाद्यनुसन्धानं सौभर्यादियोगिनो दृष्टमिति तदेवानु-
सन्धाने प्रयोजकं नोपाधिसंश्लेषोऽपीति ज्ञायते । अन्यथा योगप्रभावोत्पादिता ने कशरीरगतसुखाद्यनु-
सन्धानं योगिनो न स्यात् । अतो योगिनः स्वरूपैक्यात् उपाधिषु विश्लिष्टेष्वपि यथा नानादेहगत-
सुखादिभोगानुसन्धानं तथा प्रकृतेऽन्यापाद्यत एवेति ।
(मं. टि.) प्रयोजकस्य व्यतिरेक व्यभिचारपरिहारार्थ उपाधे: साध्यव्यापकतासिद्धयर्थं च उपाधिर्वि
शिष्यत इति शङ्कते ॥ अथापीति ॥ सिद्धान्ती तत्परिजिहीर्षुर्विकल्पयति । किमुपाधीति ॥ आधे दूषणं
प्रतिजानीते ॥ नाद्य इति ॥ कोयमुपाधीनामन्योन्यसलेषो नाम ? किं सम्बन्धमात्रं ? किं वा उत्पत्तिमारभ्य
सम्बन्ध: ? यद्वा मिलित्वा एकावयव्यारम्भकत्वं ? नाद्यः तस्य प्रकृतेऽपि सत्वात् । न द्वितीय इत्याह
॥ मात्रिीति ॥ अन्वयव्यभिचारान्न संश्लिष्टोपाधिरनुसन्धाने प्रयोजक इति नास्मदुक्तमनुमानमप्रयोजकं । नापि