This page has not been fully proofread.

जीवब्रह्मणोर्जीवानां च भेदसाधकानुमानप्रयोगः
 
३४१
 
टि.) तत्सुखाननुसन्धातृप्रतियोगिकत्वात् यन्नैवं तन्नैवं यथा यज्ञदत्तेन यज्ञदत्तस्यैक्यं ' इति वा प्रयोगस्य विवक्षि
तत्वात् । ननु घटस्य स्वनिष्ठसुखाद्यननुसन्धातुरपि स्वेनैक्यं विद्यत एव । तथा च तत्र व्यभिचार इत्याशङ्कयाह
॥ चैतन्येति ॥
 
स्वरूपैक्ये अनुसन्धान स्यात्' इति तर्फे उपाधिशङ्का
 
(टी.) ननु दृष्टान्तस्थले अनुसन्धानस्य उपाधिभेदाभावः प्रयोजकः, न तु स्वरूपैक्यमात्रं
प्रकृते तु उपाधिभेदसद्भावात् कथमनुसन्धानप्रसङ्गः?
 
6
 
सिद्धान्त्युक्तानुमाने अप्रयोजकत्वशङ्का
 
कथं च अन्यनिमित्तस्य अनुसन्धान स्याभावात् स्वरूपैक्या भावानुमानं इति ।
 
पूर्वोक्तशङ्कापरिहारः
 
अत आह
 
..उपाधिभेदेऽपि.
 
पूर्ववाक्येन सम्बन्धः । अनेन अनुसन्धानं प्रति उपाधिभेदाभावो न प्रयोजकः । किं नाम ?
स्वरूपैक्यमेव' इत्युक्तं भवति । तत् कुतो ज्ञायते ? इत्यत आह
 
हस्तपादादिगो यथा ।
 
अस्यापि पूर्वेणैव सम्बन्धः । ' स्वरूपैक्ये सति हस्तपादायुपाधीनां भेदे सत्यपि अनुसन्धान-
दर्शनात् तदेव प्रयोजकम् नोपाधिभेदाभावः' इति ज्ञायते । अन्यथा उपाधिभेदात् हस्तपादादि-
गतसुखादिभोग एकस्य न स्यात् । अतः 'उपाधिभेदेऽपि हस्तपादादिगतसुखादिभोगवत् स्वरूपैक्ये सर्वो-
पाधिगतोऽसौ भेदेन न दृश्येत ' इति ।
 
..
 
.
 
.
 
Jo
 
(मं. टि.) तर्कस्योपाधि शङ्कते ॥ नन्विति ॥ उपाधिभेदाभाव एव चेत्प्रयोजक: तर्हि यज्ञदत्तशरीरा-
विष्टपिशाचदुःखाद्यनुसन्धानं यज्ञदत्तस्य स्यादिति । तत्राह ॥ न तु स्वरूपैक्यमात्रमिति ॥ उपाध्यैक्यस्वरूपैक्ययो-
रुभयोरपि प्रयोजकत्वं । अतो नोक्तदोष इत्यर्थः । उपाधेः साधनाव्यापकत्वमाह ॥ प्रकृत इति ॥