This page has not been fully proofread.

शु
 
३४०
 
उपाधिखण्डने
 
(मं. टि.) इष्टापत्तेः । देवदत्तेन यज्ञदत्तमुखोल्लासादिना तत्सुखानुमानात् तस्य च स्मरणजनकत्वात् स्मरणानुभव-
योरुभयोरङ्गीकारात् । चतुर्थ प्रत्याह ॥ अतीतेति ॥ देवदत्तस्य स्वीय एवातीते सुखे इन्द्रियसंनिकर्षजन्य-
प्रत्यक्षानुभवाभावात् तत्र व्यभिचार इत्यथः । पञ्चमं दूषयति ॥ आदीति ॥ वर्तमानमा दिपदार्थः । वर्तमान-
स्वीय एव सुखे स्मरणाभावासत्र व्यभिचार इत्यर्थ: । षष्ठेऽप्येतदेव दूषणं ॥ आदीति ॥ अनागतमादिशब्दार्थः ।
तत्र इन्द्रिय सनिकर्षाभावान्न तत्प्रत्यक्षज्ञानं । अत एव न तज्जन्यस्मरणं चेत्यर्थ:
 
,
 
-
 
-
 
या दुःखानुसन्धातृत्वं खलु 'अहं दुःखी' इत्यनुभवः । न चातीतेन दुःखेन तथा दुःखानु-
भवोऽस्तीत्याशङ्कते ॥ अतीतेति ॥ सुखादीत्या दिशब्देन दुःखादिकं विवक्षति । अस्मिन् पक्षे परिहारग्रन्थे
स्मरणग्रहण अतीते स्मरण नियमाभावादुपपन्न मिति द्रष्टव्यं ।
 
परिहरति ॥ न हीति ॥ अनुभवं स्मरणं च प्रत्येकं क्रोडीकृतं वा वर्तमानतया अनुभव तज्जन्यस्मरणं
च प्रत्येकं क्रोडीकृतं वा अनुसन्धान न ब्रूम इत्यर्थः । यद्वा अनुभवविशेष स्मरणं वा अनुसन्धानं न ब्रूमः ।
येनातीतादावनुभवस्मरण नियमाभावेन व्यभिचार: स्यादित्यर्थः । एवं न चेत्तीनुसन्धानशब्दार्थो वक्तव्य इति
शङ्कते ॥ किं नामेति ॥ परिहरति ॥ स्वीयतयेति ॥ ईश्वरस्यापि सर्वापरोक्ष विदो यज्ञदत्तदुःखानुभवितुः
तदुःखानुसन्धातृत्वं मा भूदिति स्वीयग्रहणं । अनुभवशब्देन स्मृत्यभ्यं ज्ञानं विवक्षति । मात्रशब्देन कालविशे-
षाऽकलन व्युदस्यति । एवं च न व्याप्तिभङ्ग इत्याह ॥ न चेति ॥ विवक्षितश्चानुभवोऽतीतादावण्यानुमानिकः
सम्भवतीति भावः ।
 
'
 
1
 
नन्वथापि ' अतीतादौ व्यभिचारः । अतीतस्य यस्य कस्यचित् आनुमानिकानुभवसम्भवेऽपि सर्वस्य
तथात्वनियमाभावात् । न ह्यतीतं सर्वमप्यनुमीयत इति चेत् एवं तर्ह्यनुभवशब्देन साक्ष्यनुभवो विवक्ष्यतां । न
चातीतादौ व्यभिचारः । खसत्तासमये स्वीयतयाऽनुभवस्यापाद्यत्वात् । अतीतादावपि स्वसत्तासमये स्वीयतया
अनुभवसद्भाषादिति भावः । फलितं दर्शयति ॥ तदयमिति ॥ एकपदं चैतत् । सोऽयं प्रपञ्च इत्यर्थः । प्रसङ्ग-
स्तर्कः अर्थः प्रयोजनं यस्य प्रपञ्चस्य सोऽयं प्रसङ्गार्थः । अथ वा प्रसङ्गरूपस्य सुखेत्यादिवाक्यस्य अयं वक्ष्यमा-
णोऽर्थोऽभिप्रेतार्थ इत्यर्थः । अत्र तदिति भिन्नं पदं । तच्च तस्मादित्यर्थे वर्तते ।
 
1। विमता इति ॥ ननु कथमेतदनुमानं ? ऐक्यप्रसिद्धौ तन्निषेधायोगात् । अप्रसिद्धौ तु तदभाव -
स्यासिद्धत्वेन अप्रसिद्ध विशेषणत्वापत्तेरिति चेन्न । प्रतियोग्यप्रसिद्धा वध्यभावप्रसिद्धेरन्यत्रोक्तत्वात् । यद्वा
यज्ञदत्तभर्मिक मैंक्यं न देवदत्तप्रतियोगिकं देवदत्तसुखाद्यनुसन्धान रहितधर्मिकत्वात् यत् ऐक्यं यत्प्रतियोगिकं तत्
तत्सुखानुसन्धातृधर्मिकं यथा देवदत्तेन देवदत्तस्यैक्य' इति वा 'देवदत्तप्रतियोगिकमैक्य न यज्ञदत्तघर्मिकं
 
1 अतीतसुखादिविषयकानुभवरहिते इत्यर्थः । एवमप्रेsपि.