This page has not been fully proofread.

उपाधिखण्डने
 
(मं. टि.) दुःस्वादीनामन्तःकरणधर्मत्वेन तद्भेदसाधक त्वेऽपि सुखाद्यनुसन्धातृत्वाननुसन्धातृत्वलक्षणा-
दात्मगताद्विरुद्धधर्मादात्मभेदो भविष्यतीति परिहरति ॥ इत्याशङ्कापरिहारायेति ॥
 
३३८
 
1
 
सुखदुःखादिव्यवस्थान्यथानुपपत्तेरात्मभेदासाधकत्वशङ्का
 
2
 
(टी.) एतेनैतदपि निरस्तं, यत् केनचित् व्यवस्था न्यथानुपपत्त्या भेदमाशङ्कय उक्तम् ' न तावत्
धर्मभेदो व्यवस्था । धर्मभेदेऽपि धर्मिणो भेदाप्रतीतेः । नापि भिन्नाश्रयधर्मभेदः । इतरेतराश्रयप्रसङ्गात् ।
न च विरुद्धधर्मभेदः । ऐकात्म्यवादिनं प्रति सुखादीनां विरोधासिद्धेः' इति
 

 
सुखदुःखाद्यनुसन्धानव्यवस्थान्यथानुपपत्तेरात्मभेदसाधकत्वसमर्थनम्
 
अङ्गीकृतत्वात् ।
 
'स्वरूपैक्ये अनुसन्धानं स्यात् ' इति तर्फे व्याप्तथभावशङ्का तत्परिहारश्च
 
ननु एतद्नुसन्धानं किमंशा नामापाद्यते ? उतांशिन: ? नाद्यः व्याप्त्यभावात् । हस्तगत-
सुखस्य पादगतेन अननुसन्धानात् । न द्वितीयः तस्य अभोक्तृत्वादिति । मैवम् उभयथाप्यदोषात् ।
न हि तत्तद्भोगायतनानां सङ्क्रान्तिरापाद्यते । किं तु ? सुखाधनुसन्धानमात्रम् । तत् अंशानामस्त्येव ।
भोक्तृभूतांशवतोंऽशिनोऽभोक्तृत्वासिद्धेश्च ।
 
सुखदुःखाद्यनुसन्धानभावाभावरूपव्यवस्थाया
 
अतीतसुखादाविव अननुसन्धानं किं न स्यात् ? इति चेत्, न हि वयं वर्तमानतया अनुभवं
स्मरणं वा अनुसन्धानं ब्रूमः । किं नाम ? स्वीयतया अनुभवमात्रं । न च तन्नास्ति अतीत-
सुखादाविति ।
 
तदयं प्रसङ्गार्थः 'यदि जीवब्रह्मणी जीवाश्च स्वभावतोऽभिन्नाः स्युः तदा अन्योन्यगतसुख-
दुःखादिविषये स्वीयतया अनुभववन्तः स्युः यथा सम्प्रतिपन्नः' इति । 'विमताः परस्परमैक्यरहिताः
चेतनत्वे सत्यन्योन्यगतसुखदुःखाद्यनुसन्धानशून्यत्वात् यो येनैक्यवान् चेतनः स तत्सुखाद्यनुसन्धा-
नवान् यथा सम्प्रतिपन्नः' इत्यनुमानं वा अनेन सूचितं । चैतन्यावच्छिन्नत्वात् व्याप्तेर्न कश्चित्
क्षुद्रोपद्रवः ।
 

 
(मं. टि. )॥ यत्केनचिदिति ॥ तत्र किं धर्मभेदो 2 व्यवस्था ? किं वा भिन्नाश्रय धर्मभेद: ? विरुद्ध धर्म भेदो
वा इति विकल्पान् हृदि निधाय प्रथमं प्रत्याचष्टे ॥ न तावदिति ॥ द्वितीयं प्रत्याह ॥ नापीति ॥ इतरेतराश्रयप्र-
1 तद्धेतसाधकत्वेऽपि
 
2 व्यवस्थापक: