उपाधिखण्डनम् /30
This page has not been fully proofread.
एकजीववादमाश्रित्य प्रागुक्तदोष परिहारशङ्का
३३७
(मं टि.) ननु एकजीववादे एकस्यैव दुःखानुसन्धातृत्वं । इतराणि निर्जीवानि शरीराणि । तथा च
अन्यो दुःखानुसन्धातैव नास्ति । कुतोऽव्यवस्था ? इति चेन्न ।
तत्परिहारः
त्वदज्ञानकल्पितेनापि मया दुःखानुभवात् । तथैव मदज्ञानकल्पितोऽसीति चेत् त्वदज्ञानेन तथा
कल्पने 'अयं दुःखी' इति तव प्रतीतिरस्तु । ' अहं दुःखी ' इति मम तु कथं प्रतीतिः ? नास्ति सा
तवेति चेन्न परबुद्धेर प्रत्यक्षत्वात् । तथापि तावकीनानुभवे मम किं प्रमाणं इति चेत् रूपे चक्षुष इव मद्वच-
नैकवेद्ये तस्मिन्मद्वचनस्यैव प्रमाणत्वात् । स्वतः प्राप्तस्य च प्रामाण्यस्य बाधकापोद्यत्वात् तथाविधे मद्वचने
बाघकाभावाच्च ।
किञ्चैवं सति 'प्रतिवादिनं मां प्रति उत्तरं दत्तं
त्वया' इत्यत्र प्रमाणाभावादननुभाषणं नाम निग्रह-
स्तवापद्येत । तत्र त्वदनुभव: प्रमाणमिति चेन्न । मम कल्पितस्याननुभवितृत्वात् । मयाध्यनुभवालापमाश्रित्य
अनुभूयाऽपि नानुभूयत इति वक्तुं शक्यत्वाच्च ।
प्राश्निकानुभवः तत्र प्रमाणमिति चेन्न । तेषामप्यननुभवितृत्वात् । अनुभवितृत्वेऽपि 'अकल्पकैर-
स्माभिर्दुःखमनुभूयते' इति प्राश्निकानुभवस्य प्रामाण्यसम्भवाच । अथैव ब्रूपे 'त्वमेव कल्पकोऽहं त्वत्कल्पितः '
इति, तदापि त्वया अनुभवापलापेऽपि ये नानुभवापलापिनः तेषां कल्पकात्म।तिरिक्तानां दुःखानुभवितृत्वं न
स्यात् । अपि चैवं अनुभवापलापे लोकायत प्रति ' मम शरीरं' इत्याद्यनुभवबलेन शरीरातिरिक्तात्मसाधनं
अहमज्ञः' इत्याद्यनुभवबलेन भावरूपाज्ञानसाधनं परमप्रेमास्पदत्वानुभवेन आनन्दात्मकत्वसाघनमित्यादिकं
त्वयोक्तमसङ्गतं स्यात् ।
तस्मात् ' काल्पनिकी व्यवस्था घटेत' इत्ययुक्तमिति । सत्यं, अभ्युपगमवादोऽयमित्यदोषः । अत
एवाघटनमेव पारमार्थिक मिति सूचयितुं घटेतापि इति अपिशब्दः प्रयुक्तः ।
सुखदुःखाद्यनुभवभेदस्य आत्मभेदसाधकत्वोपपादनम्
(टी.) ननु सुखदुःखादयोऽन्तःकरणधर्माः । तद्भेदात् कथञ्चित् अन्तःकरणभेदः साध्यतां ।
आत्मभेदे तु किमायातम् ? इत्याशङ्कापरिहाराय भोग इत्युक्तं । न वयं सुखादिभेदात् ' अन्तःकर-
णभेदं साधयामः । किं नाम ? ' स्वरूपाभेदे सुखाद्यनुसन्धानं स्यात्' इति ब्रूमः ।
1 मदभिलषितेऽपि 'अकल्पकैरप्यस्मभिर्दुः खमनुभूयते"
' आत्मभेदं साधयाम: ' इति पाठेन भाव्यमिति भाति.
22
2 आत्ममेदे तु किमायातम् इति शङ्कानुरोधन
"