उपाधिखण्डनम् /29
This page has not been fully proofread.
उपाधिखण्डने
सत्योपाधिकृतसत्यभेदवादे सुखादिभोगस्य नियतप्रमातृकत्वाभावदोषः
(टी.) सत्योपाधिकृतसत्यभेदवादे दोषन्तरं चाह
सुखदुःखादिभोगश्च स्वरूपैक्ये न भेदतः ॥ ६ ॥ ॥
दृश्यो हि.....
हिंशब्दो व्याप्तिसूचनार्थः । भवतु वा आकाशादिभेदः कथञ्चित् औपाधिकः । जीवब्रह्मणोः
जीवानां च भेदस्तु स्वाभाविक एवाङ्गीकार्यः । स्वरूपैक्ये स्वाभाविकैक्ये सुखदुःखादिभोगस्य भेदन
दर्शनं न स्यात् सम्प्रतिपन्नैकात्मवत् ।
(मं. टि.) ॥ भेदेनेति ॥ भिद्यत इति भेदः । कर्मणि घञ् । इत्थम्भूतलक्षणे तृतीया । आश्रय-
विशेषणं चैतत् । भिन्नेनाश्रयेणोपलक्षितस्य दर्शनं न स्यादित्यर्थः । नियतप्रमातृत्वं न स्यादिति यावत् । एवमेव
स्वरूपैक्ये न भेदतः इति कारिकास्थोऽपि भेदशब्दो व्याख्येयः ॥ सम्प्रतिपन्नैकात्मवदिति ॥ 'तत्र तस्येव
इत्यनेन सूत्रेण तत्रेव इत्यर्थे वतिः । सम्प्रतिपन्नैकात्मनीवेत्यर्थः ।
भेदस्य मिथ्योपाधिकृतत्ववादे काल्पनिकव्यवस्थाया अभ्युपगमवादेनाङ्गीकारः
(टी.) ये तु 'मिथ्योपाधिनिमित्तो भेदभ्रमः' इति वदन्ति तेषां सुखदुःखादीनामपि मिथ्या-
त्वात् काल्पनिकी व्यवस्था घटेतापि ।
भेदभ्रमस्य मिथ्योपाधि निमित्तत्ववादे काल्पनिकव्यवस्थाया अप्यनुपपत्तिसमर्थनम्
(मं. टि.) ननु तेषां काल्पनिकी व्यवस्था घटेत इत्ययुक्तं । तथा हि, किं तेषां व्यवस्था न
प्रतीयत इति न दोष: ? उत अपारमार्थिकीति ? यद्वा युक्त्यसहेति ? नाद्यः अनुभवसिद्धत्वात् । द्वितीये
सा किं व्यवस्थापकमेव नापेक्षते ? किं वा पारमार्थिकं ? नाद्यः यक्षानुगुणबलिवत् तदनुगुणव्यवस्थापकस्य
आवश्यकत्वात् । अन्यथा अपारमार्थिक जीवत्वादिव्यवस्था सिद्ध्यै अविद्यानङ्गीकारप्रसङ्गात् । न द्वितीयः,
अपारमार्थिकस्यापि व्यवस्थापकस्य स्वाभाविकभेदद्व्यतिरेकेण निराकरिष्यमाणत्वात् । न तृतीयः
दुर्घटत्वं भूषणं चेत्स्यादविद्यात्वमात्मनः ।
इति वक्ष्यमाणातिप्रसङ्गात् ।