This page has not been fully proofread.

उप । धिखण्डने
 
आकाशांशाना मन्योन्यभेदाङ्गीकारे आकाशस्य अनित्यत्वशङ्कापरिहारौ
 
(मं. टि.) एवं चेदाकाशस्य सावयवत्वेनानित्यत्वं स्यादिति चेन्न । सांशत्वेऽपि सावयवत्वाभावेन आपा-
दकासिद्धेः । व्याहतमेतदिति चेत् । किमंशा एवोपादानापरपर्यायावयवा इत्यभिमान: ? किं वा
तद्व्याप्ता ? इति ।
 
३३४
 
अवयवातिरिक्तांशसमर्थनम्
 
नाद्यः पटावयवतन्त्वतिरिक्तानां हस्तवितस्त्याद्यवच्छेद्यानामंशानामनुभवात् । तथा हि, न तावत्पट-
स्तदवच्छेद्यः तस्य ततोप्यधिक परिमाणत्वात् । अनेक हस्तावच्छेद्ये एकहस्तावच्छेद्यत्वं सुतरां सम्भवतीति चेत्
तर्हि परममहतो मध्यमपरिमाणत्वं मध्यमपरिमाणस्याणुत्वमापतेति साधु समर्थित तार्किकमतं । स्वरूपेणाधिक
परिमाणस्यापि खण्डपटावच्छिन्नस्य अल्पपरिमाणत्वं च भविष्यतीति चेन्न । अनुपदमेव निराकरिष्यमाण-
त्वात् । किं चैवमनेकत्व सङ्ख्ययैव एक इति व्यवहारनिर्वाहें एकत्वमप्रामाणिकमापद्येत । परिमाणभेदेन
द्रव्य मेदावश्यम्भावेन एकस्मिन् परिमाणद्वयायोगाच्च ।
 
नापि तन्तवस्तदवच्छेद्याः तेषां ततोऽप्यल्पपरिमाणत्वात् ।
 
खण्डपटास्तद वच्छेद्या इति चेत् किमनारभ्यारम्भवादोऽङ्गीक्रियते किंवा आरभ्यारम्भवाद: ? आद्ये
तन्तुमहापटातिरेकेण आन्तरालिककार्यमेव नाङ्गीकियते ? उत अङ्गीकृत्यापि तस्य पटारम्भकत्वं नाङ्गीक्रियते ?
आद्येऽपि किं तन्नोत्पद्यते ? उत उत्पन्नमपि महापटस्य स्वप्रतिबन्धकत्वात् तदवस्थानसमये स्वयं नश्यति ?
इति । उभयथापि महापटावस्थानसमये कथं खण्डपटावकाश: । द्वितीये त्विष्टापत्तिः ।
 
.
 
आरभ्यारम्भवादेऽपि किं खण्डपटा: महापटोपादानभूता: ? उत न? न चेत् सिद्धं नः समीहितं ।
उपादानातिरिक्तांशानां त्वयैवोपपादनात् । प्रथमेऽपि किं त एव पटस्योपादानानि ? किं वा तन्तवोऽपि ?
नाद्यः, 'इह तन्तुषु पटसमवायः' इति प्रतीत्यभावनसङ्गात् । तन्तूनामनुपादानत्वात् । परम्परयोपादानत्वेन
तथा प्रतीतौ ' त्र्यणुके पट : - इति प्रतीयेत । द्वितीये खण्डपटा अपि तन्त्वारब्धा इति वक्तव्यं । आरम्भ-
कान्तराभावात् । न च तद्युक्तं । तत्त्वारभ्यपटारम्भकाणां तेषां तन्तुवत् तन्तूपादेयत्वायोगात् । पटारम्भ-
कतन्त्वारब्धस्य पटवत् पटोपादानत्वायोगाच्च ।
 
एकद्रव्यारम्भकस्य द्रव्यान्तरानारम्भकत्वनियमभङ्गः
 
ननु त्वत्पक्षेऽप्यंशास्तन्तूपादेया इति वक्तव्यं । गत्यन्तराभावात् । तथा च अन्यद्रव्यारम्भकस्य अन्यद्र-
व्यारम्भकत्वमन्यत्रादृष्टमापद्येतेति चेन्न । खारब्धपटनाशे तेषामेव तन्तूनां पटान्तरारम्भकत्वदर्शनात् । युगपदेव
नास्तीति चेन्न । अत्राप्यंशा रम्भानन्तरमंश्यारम्भाङ्गीकारेण तदभावात् ।
 
·