This page has not been fully proofread.

मन्दारमञ्जर्या अत्यन्ताभावान्योन्याभावयोः स्वप्रतियोगिसामानाधिकरण्याभावः
 
(मं. टि.) विरोधपरिहारात् प्रतियोगिसामानाधिकरण्याङ्गीकारेऽपि न कश्चिद्विरोध: । अत्यन्ताभावस्य तु नित्यत्वात्
कालभेदेन विरोधपरिहारासम्भवेन देशभेदेनैव विरोध: परिहरणीय इति कथं सामानाधिकरण्यं ? अथ
नित्योऽप्यन्योन्याभावः प्रतियोगिसमानाधिकरणो दृश्यते । घटवत्येव भूतले घटान्योन्याभावानुभवात् । अतः
कथं विरोधपरिहारस्तत्र ? इति चेदित्थम् । अभावो हि प्रतियोगितावच्छेदकावच्छिन्नेन प्रतियोगिना
विरुद्धयते न पुनः प्रतियोगिमात्रेण । अन्यथा अदण्डिनि पुरुषे विद्यमान एव 'दण्डी पुरुषों न' इति
निषेधो न स्यात् । तत्र प्रतियोगितावच्छेदकदण्डावच्छिन्नस्य पुरुषस्यासत्त्वेपि प्रतियोगिमात्रस्य पुरुषस्य सत्वात् ।
एवं चान्योन्याभावोऽपि यद्यपि प्रतियोगिमात्रसमानाधिकरणः तथापि प्रतियोगितावच्छेदकतादात्म्यावच्छिन्नेन
 
6
 
प्रतियोगिना न समानाधिकरणः । न हि भूतले घटो भूतलात्मना वर्तते' इति नान्योन्याभावोऽपि

प्रतियोगितावच्छेदकावच्छिन्न प्रतियोगिसमानाधिकरणः । तथा च प्रयोग: 'अत्यन्ताभावः प्रतियोगिताबच्छेद-
कावच्छिन्न प्रतियोगिसमानाधिकरणत्वे सति तांहकप्रतियोगिसमानकालींनो न अभावत्वात् संमतवत् ' तदेतदाह
॥ तस्य विरुद्धत्वादिति ॥ तस्येति ॥ भावाभावयोः सामानाधिकरण्यस्येत्यर्थः ।
 
अंशभेदेन अत्यन्ताभावस्य स्वप्रतियोगिसमानाधिकरण्यशङ्खापरिहारौ
 
नव्वत्यन्ताभावेऽध्यंशभेदेन विरोधपरिहारोऽस्तु हस्तपादाद्यवच्छेदकभेदेन पुस्तकसंयोगतदत्यन्ताभाव-
योर्दर्शनादिति चेन्न । तत्रांशभेदवत् गगनेंऽश भेदाभावात् ।
 
प्रतीतिबलात् अत्यन्ताभावस्य स्वप्रतियोगिसामानाधिकरण्यशङ्खापरिहारी
 
(टी.) प्रतीतत्वादविरोध इति चेन्न । आकाशभेदवादिनं प्रति प्रतीत्यसिद्धेरिति ।
 
(मं. टि.) नन्वथापि प्रतीतिबलात् संयोगतद्वत्यन्ताभावयोः सामानाधिकरण्यमस्तु । प्रमाणेनैव विरोधपरि-
हारादिति शङ्कते ॥ प्रतीतत्वादिति ॥ न प्रतीतिमात्र व्यवस्थापकं अतिप्रसङ्गात् । किंतर्हि ? प्रमारूपा प्रतीतिः ।
प्रामाण्यं च विरोधे परिहृते, विरुद्धार्थग्राहकयोः 'अन्यतराप्रामाण्यस्य अवश्यम्भावात् । विरोधपरिहारश्च
प्रमाणबलादित्यन्योन्याश्रयः । तस्मात् युक्त्या विरोधं परिहृत्य पश्चात् प्रतीतेः प्रामाण्यं विज्ञेयं । तचात्र
नास्तीति नैतद्युक्त मिति परिहारे स्थितेऽपि परिहारान्तरमाह ॥ न आकाशेति ॥ आकाशांशानामन्योन्यभेद-
वादिनं प्रतीत्यर्थः । वैयधिकरण्येनैव प्रतीतिनिर्वाहे न सामानाधिकरण्यकल्पकं किञ्चिदस्तीति भावः ।
 
2
 
16
 
' तस्य विरुद्धत्वात् ' इति वाक्यानन्तर टीकायां 'तस्य' इति पदाभावात् ॥ तस्येति ॥ इति प्रतीकधारण लेखक-
प्रमादागतमिति भाति । तस्य विरुद्धत्वादिति वाक्यगतं 'तस्य' इति पदमनूद्य भावाभावयोरित्यादिना व्याख्यातमिति भाति.
2 अन्यतरप्रामाण्यस्य.