उपाधिखण्डनम् /25
This page has not been fully proofread.
३३२
उपाधिखण्डने
एकदेशगतस्योपाधेर्भेदकारकत्वे अनवस्थात्माश्रयदोषौ
एकदेशेऽनवस्था स्यात् ...
(टी.) ' चेदुपाधिसम्बन्ध इति' वर्तते । यदि घटाद्यपाधिसम्बन्धो गगनैकदेशवर्तीत्युच्यते तदा
तस्याप्याका शैकदेशस्य औपाधिकत्वं वक्तव्यं । सोऽप्युपाधिरुपाध्यन्तरकृतैकदेशे सम्बद्धय भेदक
इत्यनवस्था । उपाध्यन्तरानङ्गीकृतावात्माश्रयः स्यात् । द्वितीयं दूषयति
उपाधे: सर्वगतत्वे भेदकत्वानुपपत्तिदोषः
.
।
. सर्वगन्न भेदकः ।
....
यद्यपाधिसम्बन्धः सर्वाकाशगतः स्यात् तदासौ नाकाशभेदस्य कारकः स्यात् । कृत्स्नस्यैकोपा-
धिनैव ग्रस्तत्वात् । इदमुक्तं भवति । असम्बद्धस्योपाधेरवच्छेदकत्वे काश्मीरस्थेन महारजनेन केरल
वर्तिनो वाससोऽवच्छेदप्रसङ्गात् सम्बद्ध एवोपाधिर्भेदक इति वक्तव्यम् । घटाकाशसंयोगश्च आकाशे
व्याप्यवृत्तिश्चेत् सर्वाकाशस्य घटाकाशत्वात् आकाशभेदहेतुर्न स्यादिति प्रदेशवृत्तिरित्यङ्गीकार्यम् ।
तस्य च प्रदेशस्योपाधिकृतत्वे अनवस्थादिप्रसङ्गात् स्वाभाविकत्वमेवेष्टव्यम् । तथा च प्राक्सिद्धस्य
आकाशभेदस्य उपाधिना कर्तुमशक्यत्वात् उपाधिर्विद्यमानस्यैव भेदस्य ज्ञापको विज्ञायत इति ।
(मं. टि.) ननु असम्बद्धस्यैवोपाधेर्भेदकत्वमङ्गीकियते । न चातिप्रसङ्गः । भेदप्रतीतेस्तत्प्रतीत्यधीनत्वस्यैव
नियामकत्वात् । ततश्च एकदशोऽथ सर्वगः इति विकल्पोऽनवसरपराहत इत्याशङ्का ॥ यधुपाधिरित्या-
दिना ॥ न चेदित्यस्यार्थं विवृण्वन् तात्पर्यमाह ॥ तदैवमित्यादिना ॥ असम्बन्धे भेदप्रतीतेस्तत्प्रतीत्यधीनत्वमेव न
स्यादिति भावः । नन्वसम्बन्धेऽपि अन्वयव्यतिरेकबला दुपाघेर्भेदकत्वमिति नातिप्रसङ्ग इत्याशङ्कयाभिप्राय माह
॥ इदमुक्तं भवतीत्यारभ्य विज्ञायत इत्यन्तेन ग्रन्थेन ॥ विद्यमानभेदज्ञापनमात्रेण उपाध्यन्वयव्यतिरेकयो-
श्चरितार्थत्वादिति भावः ।
-
: नैयायिकमतेन उपाधेरंशवृत्तित्वाभावशङ्का तन्निरासश्च
(टी.) प्रदेशवृत्चित्वं नाम स्वात्यन्ताभावसमानाधिकरणत्वमिति चेन्न । तस्य विरुद्धत्वात् ।
(मं. टि.) ननु प्रदेशवृत्तित्वं । नाम नांशवृत्तित्वं । किं तर्हि ? अन्यदेवेति तटस्थो नैयायिकः शङ्कते
॥ प्रदेशवृत्तित्वं नामेति ॥ भावाभावयोः स्वाभाविक विरोधान्नैतयुज्यत इत्याह । नेति ॥
अत्यन्ताभावान्योन्याभावयोः स्वप्रतियोगिसामानाधिकरण्याभावः
ननु ' अत्यन्ताभावोऽपि प्रतियोगिसमानाधिकरणः अभावत्वात् प्रागभाववत्' इति चेत् मैवम् । भावा-
भावयोर्विरोधपरिहारो द्वेषा भवति कालभेदेन वा देशभेदेन वेति । प्रागभावप्रध्वंसाभावयोस्तु कालभेदेन