This page has not been fully proofread.

यदाकाश इत्यादेव्र्व्याख्यानान्तरं
 
(मं. टि.) किं, घटाकाशमहाकाशयोर्भेद उपाधिकृत इत्युच्यते किं वा घटाकाशमठाकाशयो:?
आद्योत्तरत्वेन कारिकाखण्डं व्याचष्टे ॥ यदेति ॥ द्वितीयोत्तरत्वेन तदेव स्खण्डं व्याचष्टे ॥ यदा विति ॥
* उपाधे कारकत्वे उपाध्यपेक्षैव न स्यात् । भेदस्य स्वरूपत्वेनोपाघेरुपयोगानिरूपणात् ।
 
2
 
भेदस्य वस्तुस्वरूपत्ववादिसिद्धान्तिमते उपाधेशपकत्वानुपपत्तिनिरासः
 
(टी.) ननु भेदो नाम वस्तुस्वरूपमेव स तदर्शनेनैव दृश्यः । न चोपाधेः स्वरूपदर्शने उपयो-
गोऽस्ति । तत्कथमुच्यते उपाधिर्भेदस्य ज्ञापक इति ? तत्राह
 
•. मूढबुद्धिव्यपेक्षया ।
 
a
 
अस्ति भेदस्य वस्तुस्वरूपत्वं तथापि तद्विशेष इति प्रतिपादितमन्यत्र । ततो वस्तुप्रतीतावपि
भेदाप्रतीतिरभेदप्रतीतिश्च युज्यते । तदा भेदज्ञापने अस्त्येवोपाधेरुपयोग इति ।
 
(मं. टि.) ननु ज्ञापकत्वेऽव्ययं दोषः समः । स्वरूपाभिन्नस्य मेदस्य पूर्वमेव सिद्धेः । अस्माभिर्भेदस्य
स्वरूपत्वाङ्गीकारादिति शङ्कते ॥ ननु भेदो नामेति ॥ तवेति शेषः । तर्हि स्वरूपदर्शन एव तदपेक्षाऽस्त्वित्यत
आह ॥ न चेति ॥ उपाध्यप्रतीतावपि स्वरूपप्रतीतेरिति भावः । ननु मूढा अप्युपाधिपतीति विनैव स्वरूप -
प्रतीतौ स्वरूपाभित्र भेदं प्रतिपद्यन्त एव । अतः कथं तदपेक्षयाप्युपाध्युपयोग: ? इति तत्राह ॥ अस्तीति ॥
(टी.) नन्वाकाशे विद्यमानस्यैव भेदस्योपाधिज्ञपक इति कस्मात् अङ्गीकार्यम् ? अविद्यमान
स्योत्पादक एव कमान्नाङ्गीक्रियते ? इति । तत्राह
 
न चेदुपाधिसम्बन्ध एकदेशेऽथ सर्वगः ॥ ५ ॥
 
यद्यपाधिर्विद्यमानस्यैव भेदस्य ज्ञापक इति नेष्यते । किन्तु ? अविद्यमानस्यैव कारक इत्यङ्गी-
क्रियते । तदैवं वक्तव्यम् किं घटायुपाधिराकाशसम्बन्धी तद्वेदं करोति उतासम्बद्धः । द्वितीयेऽति-
प्रसङ्गः । आद्येऽपि वाच्यं स उपाधिसम्बन्ध आकाशस्यैकदेशे वर्तते उत सर्वाकाश इति । आद्ये
दोषमाह
 
.
 
३३१
 
PL
 
1 किं घटाकाशमठाकाशयोर्भेद उपाधिकृत इत्युच्यते ? किंवा घटाकाशमठाकाशयो: स्वरूपं ? इति पाठान्तरं नैव युक्त -
मिति भाति । घटाकाशमठाकाशस्वरूपस्य यदा त्वित्यादिव्याख्यानान्तरेण उपाधिकृतत्वानिराकरणात्.
 

 
2 उपाधेरकारकत्वे इति पाठान्तरं तत्पक्षस्य मायावादिना अनुपादानात् असाध्विति भाति
 
8 ननु कारकत्वेऽप्ययं दोषः समः स्वरूपाभिन्नस्य मेदस्य पूर्वमेव सिद्धेरिति चेन्न । अस्माभिर्भेदस्य स्वरूपत्वानङ्गी-
कारात् इति शङ्कते इति मुद्रितः पाठः तत्कथमुच्यते उपाधिर्भेदस्य ज्ञापक इति' इति टीकया विरुद्धत्वादुपेक्ष्यः
 
,
 
1