This page has not been fully proofread.

उपाधिखण्डने
 
३३०
 
(म. टि.) कथं कार्योत्पत्ति: ? इति चेन्न । कार्य॑स्य असमवायिकारणजन्यत्वनियमस्य अस्माभिरनङ्गीकारात् । अङ्गी-
कारे वा विशेषणविशेष्य संयोगस्यैवा समवायिकारणत्वोपपत्तेश्च । न च रूपस्य गुणत्वात् द्रव्यारम्भकत्वानुपपत्तिः ।
'गुणत्वं आरम्भकत्वसमानाधिकरणं सत्तासाक्षाद्वयाप्यजातित्वात् द्रव्यत्ववत्' इत्यनुमानेन तत्साधनात् ।
रूपादेरपि 'एकं रूपम्' इत्यबाधितप्रतीतेः सङ्ख्यारम्भकत्वप्रतीतेश्च । अथ वा विशेषणविशेष्ययोरुभयोरुपा-
दानत्वमस्तु न च मूर्तानां सामानाधिकरण्यानुपपत्तिः । परमाणुप्रदेशेऽपि मूर्तानन्तजीवावस्थानवत् / ईश्वर-
शक्त्या अस्याप्युपपत्तेः । एकस्मिन्नेव तन्तौ द्वितन्तुका दिमहापटपर्यन्तावयविपरम्पराया स्त्वयाप्यङ्गीकाराच्च ।
विशिष्टस्य मया द्रव्यत्वानङ्गीकाराच्च । न च जातिसाङ्कर्यप्रसङ्गः । द्रव्येणोपादानेन गुणत्वप्रतिबन्धात् गुणेनोपा-
दानेन च द्रव्यत्वप्रतिबन्धात् तदुभयारब्धस्य द्रव्यगुणानन्तर्भाविनः पदार्थान्तरत्वाङ्गीकारात् । ननु यदा
विशेष्यमपि विशिष्टोपादानं तदा तत्वविवेकग्रन्थे ' कार्यकारणयोश्च' इत्युक्त्वा कथं पुनराचार्यो 'विशिष्ट-
शुद्धयो: ' इति पृथग्विशेष्यविशिष्टयोर्ग्रहणमकरोदिति चेत् गोबलीवर्दन्यायेनेत्यवेहि । यद्यपि विशिष्टविशेष्य-
योरभेदः तथापि भेदस्याप्यङ्गीकारात् सत्येव विशेष्ये विशिष्टोत्पत्तिरुपपद्यत एव । तदेतदाह ॥ विशिष्टद्वय-
स्योत्पत्तेरिति ॥ तर्हीति ॥ श्रवण । दिजन्यज्ञानवत एव मोक्षान्वयात् 'बन्धमोक्षयोः सामानाधिकरण्य-
निबन्धादिति भावः ।
 
आकाशे औपाधिकभेदशानिरासौ
 
(टी.) नन्वेकस्मिन्नेवाकाशे घटमठाधुपाधिभिर्भेदः क्रियमाणो दृश्यत एव । नेत्याह
 
..खेऽपि देशान्तरस्य सः ॥ २४ ॥
 

 
ज्ञापको विद्यमानस्य..
 
यदा आकाशे भेदो नास्तीति सिद्धान्तः तदा अन्तरशब्दो विशेषवचनः । ततश्च 'खेऽपि
प्रागेव विद्यमानस्य देशविशेषस्य ज्ञापक एव स उपाधिरङ्गीक्रियते न तु भेदस्य कारकः' इति नायं
दृष्टान्त इत्यर्थः । यदा तु घटमठाद्याकाशभेदाभ्युपगमः तदा खेऽपि घटायुपाधि : प्राग्विद्यमानस्यैव
देशान्तरस्य देशभेदस्य ज्ञापक एव न तु कारक इति योज्यम् ।
 
+
 
(मं टि.) सिद्धान्ते आकाशांशानां देशविशेषाणां
वाच्यन्तरशब्दप्रयोगो नोपपद्यत इत्यत आह ॥ यदेति ॥
विक नेदमङ्गीकारयतीत्याह ॥ यदा तु घटेति ॥
 

 
यावद्द्व्यभावित्वात अत्यन्ता भेदस्याङ्गीकारात् भेद-
परेणौपाधिकभेदोऽङ्गीक्रियते । तं प्रति स्वाभा
 
2
 
न बन्धमोक्षयोः
 
1 विशिष्टद्वयस्यैषोत्पत्तेरिति, इति पाठान्तरम्.
पस्तकस्थपाठान्तरस्य बन्धमोक्षयो वैयधिकरण्यसमर्थनपरतया असाधुतैवेति भाति,
 
: सामानाधिकरण्यमिति भावः इति मुद्रित-