उपाधिखण्डनम् /22
This page has not been fully proofread.
मन्दारमञ्जर्यां विशिष्टस्य पदार्थान्तरत्वसमर्थनम्
३२९
(मं. टि.) इति समूहालम्बनज्ञानेनापि विशिष्टव्यवहारप्रसङ्गात् । तत्रासंसर्गे विद्यमानेऽपि तद्ग्रह नियमाभावेन
तस्यागृहीतासंसर्गकविशेषणविशेष्यविषयकत्वात् । न ह्यसंसृष्टयोर्दण्डदेवदत्तयोः स्वरूपज्ञाने असंसर्गग्रहोऽपेक्ष्यते ।
नापि तृतीयः, दण्डदेवदत्ततत्सम्बन्धाः' इति समूहालम्बनज्ञानात् ' दण्डी' इति विशिष्टज्ञानस्य वैलक्षण्याभाव-
प्रसङ्गात् । विषय भेदाभावात् । विषयभेदं विना ज्ञानयोर्वैलक्षण्यायोगाच्चेति । चतुर्थेऽपि अदण्डिव्यावृत्तिः
' दण्डी' इति विशिष्टज्ञाने प्रतीयते न वा ? न चेत् 'दण्डी देवदत्त : ' ' देवदत्तोऽयं ' इति ज्ञानद्वयस्य
वैलक्षण्यं न स्यात् । विषय मेदस्या निरूपितत्वात् । प्रतीयते चेत् सा किं स्वरूपेण प्रतीयते ? किं वा देव-
दत्तादिविशिष्टाकारेण । नाद्यः, व्यावृत्तेरन्योन्याभावरूपाया निरधिकरणाया: प्रत्येतुमशक्यत्वात् । अधिकरणा-
न्तरस्य अप्रस्तुतत्वाच्च । द्वितीये यथा दण्डवैशिष्ट्यं नाम अदण्डिव्यावृत्तिमात्रं तथा व्यावृत्तिवैशिष्टचमपि
अव्यावृत्तव्यावृत्तिमात्रं ? किं वा पदार्थान्तरं ? द्वितीये सिद्धं नः समीहितम् । प्रथमे साऽपि अव्यावृत्तव्या-
वृत्तिर्विशिष्टज्ञाने प्रतीयते न वा ? न चेदुक्तदोषः । प्रतीयते चेत् सा किं स्वरूपेण ? किं वा देवदत्तादिवि -
शिष्टत्वाकारेण ? इत्यादिप्रश्नापर्यवसानात् अनवस्था स्यात् ।
.
विशिष्टस्य पदार्थान्तरत्वे प्रमाणोपन्यासः
तर्कितेऽर्थे प्रमाणं च ' दण्डी देवदत्तः' इति विशिष्टव्यवहारः दण्डदेवदत्ततत्सम्बन्धातिरिक्तविषयकव्यव-
हर्तृसमवेतविशेषज्ञानजन्यः विशिष्टव्यवहारत्वात् कुण्डली तिव्यवहारवत्, दण्डीति व्यवहारो 'दण्ड्देवदत्ततत्स-
म्बन्धातिरिक्तविषयकव्यवहर्तृसमवेत विशेषज्ञानजन्यः सत्यपि तज्ज्ञाने कदाप्यनुत्पद्यमानत्वात् संमतवत् ।
-
ईश्वरज्ञाने नार्थान्तरतां परिहर्तुं व्यवहर्तृसमवेतेत्युक्तम् । न च द्वितीयानुमाने असिद्धिः । 'दण्डदेवदतत-
त्सम्बन्धाः' इति समूहालम्बने सञ्जातेऽपि 'दण्डी' इति विशिष्टज्ञानं विना तद्व्यवहाराभावात् । समूहाल-
म्बनज्ञानस्य निर्विकल्पकतुल्यत्वेन विशिष्टव्यवहाराजनकत्वस्य त्वयाप्यङ्गीकारात् ।
विशिष्टस्य पदार्थान्तरत्वे परोक्ताक्षेपनिरास:
यदप्युक्तं तर्दिक नित्यमनित्यं वेत्यादि । तत्र ब्रूमः, यत्र विशेषणविशेष्यौ नित्यौ तत्र विशिष्टो नित्य
एव । यत्र तावनित्यौ तत्रानित्य इति । तत्रानित्येषु विशिष्टेषु तद्विशेषणान्युपादानानि न विशेष्यमपि । येन
मूर्तानां सामानाधिकरण्यप्रसङ्गः । येन च द्रव्यगुणद्वयारब्धे कार्ये जातिसाङ्कर्यप्रसङ्गः । विशेष्यसन्निधानं तु
निमित्तमेव । एकस्योपादानत्वं कथम् इति चेन्न । एकेनैव दीर्घतन्तुना पटारम्भदर्शनात् । एकस्य
गुणोपादानत्ववत् द्रव्योपादानत्वस्याप्युपपत्तेश्च । एकस्योपादानत्वे अवयवसंयोगलक्षणासमवायिकारणाभावात्
। देवदत्ता विशिष्टाकारेण इति पाठान्तरम् । इदं च उत्तरानानुगुण्यादयुक्तम् ।
2 दण्डदेवदत्ततत्सम्बन्धविषयकव्यवहर्तृसमवेतज्ञानजन्यः इति मुदितपुस्तकस्थं पाठान्तरं अर्थान्तरत्वादिदोषदुष्टं